दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 320, कुल 474 में से
संदर्भ में पढ़ें३२० दशकुमारचरितम् । [ उत्तरपीठिकायां वानमुष्मिन्नायतने विस्मृतविन्ध्यवासरागं वसन्त्या विन्ध्यवासिन्याः पादमूलादपत्यद्वयम् । अनया च किलास्मै प्रतिशयिताय स्वप्ने समा- दिष्टम्—समुत्पत्स्यते तवैकः पुत्रः, जनिष्यते चैका दुहिता । स तु तस्याः पाणिग्राहकमनुजीविष्यति । सा तु सप्तमाद्वर्षादारभ्याऽपरिणयनात्प्र- तिमासं कृत्तिकासु कन्दुकनृत्येन गुणवद्भर्तृलाभाय मां समाराधयतु । यं चाभिलषेत्सामुष्मै देया । स चोत्सवः कन्दुकोत्सवनामास्तु इति । तुङ्गधन्वेति नाम यस्यासौ । अनपत्यः निःसन्तानकः । अमुष्मिन् पुरो दृश्यमाने । आयतने-मन्दिरे । विस्मृतेति-विस्मृतो विन्ध्ये विन्ध्यपर्वते वासस्य वसतेः रागोऽ- नुरागो यत्र तद्यथा तथेति क्रियाविशेषणम् । विन्ध्यवासिन्या भगवत्या दुर्गायाः । पादमूलात्-चरणप्रान्तात् । अपत्यद्वयं सन्ततियुगलम् । प्रार्थितवानित्यनेन सम्ब- न्धः । अनया भगवत्या । अस्मै-तुङ्गधन्वने । प्रतिशयिताय-यावद्भगवती न प्रत्या- देश्यति तावन्नाहमुत्थास्यामीति प्रतिज्ञापूर्वकं निद्रिताय । समुत्पत्स्यते-जनिष्यते । स पुत्रः । तु किन्तु । तस्या दुहितुः । पाणिग्राहकं-भर्त्तारम् भगिनीपतिमित्यर्थः । अनुजीविष्यति-तदधीनो भूत्वा स्थास्यति । सा कन्या । आपरिणयनात्-आविवा- हात् विवाहपर्यन्तमित्यर्थः । कृत्तिकासु कृत्तिकानक्षत्रयुक्तदिने । कन्दुकनृत्येन- कन्दुकक्रीडासहितनृत्येन । गुणवदिति-गुणवतः प्रशस्यगुणयुक्तस्य भर्तुः पत्युर्ला- भाय प्राप्तये । मां विन्ध्यवासिनीमित्यर्थः । समाराधयतु-मदाराधनं करोतु । यं युवानम् । अभिलषेदिच्छेत् पतिरूपेण प्राप्तुमिति शेषः । सा कन्या । अमुष्मै- अभिलषिताय । युवकाय । देया दातव्या तेन विवाहेत्यर्थः । हीन थे अतः उन्होंने इस मन्दिरमें निवास करनेवाली देवीसे सन्तानके लिये प्रार्थना की थी । जो भगवती इस मन्दिरमें बसनेके कारण अपने विन्ध्यपर्वतके वासको भूलसी गयी हैं । उन्हीं देवी विन्ध्यवासिनीके चरणोंमें राजा तुङ्गधन्वाने प्रार्थना की थी । जिस प्रार्थनाके फलस्वरूप भगवती विन्ध्यवासिनीने राजाको उस रात्रिके स्वप्नमें ( जिसमें राजाने प्रतिज्ञा कर ली थी कि, आज रातको यदि देवीके दर्शन न कर लूंगा तो कल उठूँगा भी नहीं । ) दर्शन देकर आदेश दिया—'हे तुङ्गधन्वा ! तुम्हें एक पुत्र होगा और एक पुत्री होगी । वह पुत्र तुम्हारी उस पुत्रीके पतिका अनुजीवक होगा—अर्थात् उसके अधीन होकर रहेगा । वह आपकी पुत्री अपने जीवनके सातवें बरससे विवाह हो जानेके समयतक प्रत्येक कृत्तिका नक्षत्रमें कन्दुकनृत्यसे ( गेंदके खेलसे ) सुयोग्य गुणवान् पतिकी प्राप्तिके निमित्त मेरी आराधना किया करेगी । वह पुत्री जिस युवकको चाहें उसीसे आप उसका परिणय कर देना । उस उत्सवका नाम 'कन्दुकोत्सव' होगा ।