दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 323, कुल 474 में से
संदर्भ में पढ़ेंषष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३२३ द्युपरते यद्यहं जीवेयं नृशंसो वेश इति समर्थयेयं लोकवादम् । अतोऽद्यैव नय मामीप्सितं देशम् इति । (५) स तु मामभ्यधत्त—'भद्र, भवद्दृष्टेषु कतमत्समृद्धं संपन्नसस्यं सत्पुरुषभूयिष्ठं च' इति । तमहमीषद्विहस्याब्रवम्—'भद्र, विस्तीर्णेयमर्ण- वाम्बरा । न पर्यन्तोऽस्ति स्थानस्थानेषु रम्याणां जनपदानाम् । अपितु न चेदिह युवयोः सुखनिवासकारणं कमप्युपायमुत्पादयितुं शक्नुयाम् ततोऽहमेव भवेयमध्वदर्शी' । तावतोदैरत रणितानि मणिनूपुराणाम् । अथासौ जातसंभ्रमा 'प्राप्तैवेयं भर्तृदारिका कन्दुकावती कन्दुकक्रीडितेन प्रसिद्धीकृतः । तस्मिन् तादृशे । उपरते=मृते । जीवेयं-प्राणिष्यामि । नृशंसः-क्रूरः । वेशः-वेश्याजनः । समर्थयेयं-दृष्टान्तेन दृढीकरिष्यामि । लोकवादं जनोक्तिम् । नय-प्रापय । अभीप्सितं-स्वन्मनोगतम् । (५) स कोशदासः । मां मित्रगुप्तमित्यर्थः । राष्ट्रेषु-जनपदेषु । समृद्धं-प्रचु- रधनम् । सम्पन्नशस्यं पर्याप्तधान्यम् । सत्पुरुषभूयिष्ठं-सज्जनबहुलम् । तं-कोश- दासम् । अहं-मित्रगुप्तः । विस्तीर्णा-विशाला । अर्णवाम्बरा पृथ्वी । पर्यन्तः शेषः । अपितु-किन्तु । इह दामलिप्तनगरे । सुखेति-सुखेन निवासो वसतिस्तस्य कारणं जनकम् । उत्पादयितुं कर्तुम् । ततस्तर्हि । अध्वदर्शी मार्गदर्शकः । अहमेव युवा- मन्यत्र नेष्यामीति भावः । तावता-तस्मिन् काले । उदैरत-उत्पन्नानि बभूवुः । ईण् गतौ कम्पने चेत्यस्य धातोलँङि आत्मनेपदस्य बहुवचने रूपम् । रणितानि- शब्दाः । असौ-चन्द्रसेना । जातसम्भ्रमा-उत्पन्नसंवेगा । प्राप्ता-आगता । भर्तृदा- आपकी मृत्युपर यदि मैं जीवित रहूं तो सब लोग मुझे क्रूर वेश्या कहेंगे । और मैं इस लोकापवादको दृढ़ करनेवाली हो जाऊँगी कि 'वेश्याएँ क्रूर होती हैं।' अत एव आज ही आप मुझे चाहे जिस देशमें ले चलिये।' (५) उसने उस चन्द्रसेनाकी बातें श्रवणकर मुझसे कहा—'हे सौम्य ! आपने अनेक देशोंको पर्यटनकर देखा है। कृपया बताइये कि कौनसा देश धनसे तथा धान्यसे परिपूर्ण एवं भले मनुष्योंसे विभूषित है।' उस कोशदाससे मैने (मित्रगुप्तने) हँसकर कहा—'हे सौम्य ! यह समुद्रपरिधाना पृथिवी अति विशाल है। इसमें स्थान-स्थानपर रमणीय नगर बसे हैं जिनका परिगणन नहीं हो सकता । यदि आपलोग इस दामलिप्त नगरमें सुखसे रहनेमें असमर्थ हैं तो मै कोई उपाय रचूँ और आप लोगोंका मार्गदर्शक होकर कहीं दूसरे स्थलमें ले चलूँ।' इसी क्षणमें मणि-नूपुरोंकी बजती हुई ध्वनि मालूम पड़ी । तत्क्षण ही वह चन्द्रसेना सम्भ्रमित होकर बोली 'ये राजकुमारी कन्दुकावती