दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 325, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३२५
च यौवनम्' इति चिन्तयत्येव मयि, सानघसर्वगात्री व्यत्यस्तहस्तपल्ल- वाग्रस्पृष्टभूमिरालोलनीलकुटिलालका सविभ्रमं भगवतीमभिवन्द्य कन्दुक- ममन्दरागरूषिताक्षममङ्गमिवालम्बत । लीलाशिथिलं च भूमौ मुक्तवती । मन्दोत्थितं च किञ्चित्कुञ्चिताङ्गुष्ठेन प्रसृतकोमलाङ्गुलिना पाणिपल्लवेन समाहत्य हस्तपृष्ठेन चोन्नीय, चटुलदृष्टिलाञ्छितं स्तबकमिव भ्रमरमा- लानुविद्धमवपतन्तमाकाश एवाग्रहीत् । अमुञ्चच्च ।
पूर्वराजैः पूर्ववर्त्तिभिर्नृपैः । लक्ष्मीर्नारायणेनोपभुक्ता-राजलक्ष्मीपि पूर्वर्नृपैरुप- भुक्ता। इयन्तु केनापि नोपभुक्ता अतो नेयं प्रसिद्धा लक्ष्मीरिति तात्पर्यम् । अनव- द्यमनिन्द्यम् । अयातयामं-प्रत्यग्रं अनुपभुक्तमिति यावत् । अनघसर्वगात्री-अनघं निर्दोषं सर्वं निखिलं गात्रं शरीरं यस्याः सा । व्यत्यस्तेति-व्यत्यस्तेन परावर्त्तितेन हस्तपल्लवाग्रेण करकिसलयाग्रेण स्पृष्टा चुम्बिता भूमिः पृथ्वो यया सा। आलो- लेति-आलोला ईषच्चञ्चलाः नीलाः कृष्णवर्णाः कुटिला वक्रा अलकाश्चूर्णकु- न्तलाः यस्याः सा। सविभ्रमं सविलासम् । अमन्देति-अमन्देनातिशयितेन रागेण रक्तिम्ना-रूषिते भूषिते अक्षिणी नयने यस्य तथाविधमनङ्गं काममिव । आल- म्बत गृहीतवती । लीलेति-लीलया विलासेन शिथिलं श्लथम् । क्रियाविशेष- णम् । मुक्तवती क्षिप्तवती । मन्दोत्थितमीषददुद्गतम् कन्दुकमिति शेषः । किञ्चि- दिति-किञ्चिदीषत् कुञ्चितो वक्रीकृतोऽङ्गुष्ठोऽङ्गुलिविशेषो यत्र तेन । प्रसृतेति-प्रसृता विस्तारिताः कोमला अङ्गुलयो यत्र तेन । विशेषणद्वयं पाणिपल्लवेनेत्यस्य । समा- हत्य ताडयित्वा । उन्नीय-उद्ध्र्वीकृत्य । चटुलेति-चटुलया चञ्चलया दृष्ट्या दृष्टिपातेन लाञ्छितं शोभितम् । अतएव भ्रमरमालया मधुकर्पंक्त्या अनुविद्ध- मनुसृतं स्तबकं पुष्पगुच्छमिवावपतन्तमधोगच्छन्तम् । आकाशे मध्ये। अग्रहीत् कन्दुकमिति शेषः ।
विष्णु और पूर्ववर्ती राजाओंसे उपभुक्त हैं। किन्तु यह राजकुमारी तो किससे भी उप- भुक्त नहीं है। इसके अनिन्द्य अवयव हैं और नूतन अनुपभुक्त तारुण्यशालिनी है। मैं ऐसे तर्क-वितर्क कर ही रहा था कि उस निर्दोष अङ्गवाली (सर्वाङ्गसुन्दरी) ने अपने परावर्त्तित हस्तरूपी किसलयोंके अग्रभागसे पृथिवीको स्पर्शित किया। कुछ चंचल तथा काले टेढ़े बालोंकी चोटीसे विलासपूर्वक अष्टभुजादेवीको प्रणाम किया। फिर अतिशय रागसे विभूषित नेत्रवाली उसने कामदेवके समान कन्दुकको उठा लिया। पुनः विलाससे श्लथ गेंदको पृथिवीपर फेंक दिया। ततः ऊपर की ओर उछलते हुए कन्दुकको कुछ संकुचित अँगूठे तथा फैली हुई अङ्गुलियोंवाले करकिसलयसे ताड़ित कर हाथके पिछले भागसे ऊपर-
Nepal Sanskrit University, Balmeeki Campus, Kathmandu