भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 327, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 327

[Header] CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF षष्ठोच्छ्वासः ] बालत्रिबोधिनीव्याख्यासहितम् । ३२७

प्रतिक्षणमुच्चावचाः प्रशंसावाचः प्रतिगृह्णती, प्रतिक्षणारूढविभ्रमं कोशदा- समंसेऽवलम्ब्य कण्टकितगण्डमुत्फुल्लेक्षणं च मय्यभिमुखीभूय तिष्ठति तत्रप्रथमावतीर्णकंदर्पकारितकटाक्षदृष्टिस्तदनुमार्गविलसितलीलाञ्चितभ्रू- ता, श्वासानिलवेगान्दोलितैर्दन्तच्छदरश्मिजालैर्लीलापल्लवैरिव मुखक- मलपरिमलग्रहणलोलानलिनस्ताडयन्ती, ( ६ ) मण्डल भ्रमणेषु कन्दुकस्यातिशीघ्रप्रचारतयाविशन्तीव मदर्श-

हृदयस्य । जनस्य-द्रष्टृवर्गस्य । उच्चावचाः स्थूलसूक्ष्माः । प्रशंसावाचः स्तुति- भाषणानि । प्रतिगृह्णती-स्वीकुर्वती । प्रतिक्षणेति-प्रतिक्षणं प्रतिमुहूर्त्तं आरूढ उत्पन्नो विभ्रमो विलासो यस्मिंस्तद् यथा तथा। अंसे स्कन्धदेशे । अवलम्ब्य गृहीत्वा । कण्टकितगण्डं-रोमाञ्चितकपोलं यथा तथा । उत्फुल्लेक्षणं विकसितनयनं यथा तथा । मयि-मित्रगुप्ते । अभिमुखीभूय-कन्दुकावत्याः सम्मुखीनो भूत्वा । तिष्ठति-वर्त्तमाने सति । तत्प्रथमेति-तदैव प्रथमं नूतनं अवतीर्णः समुपागतो यः कन्दर्पस्तेन कारिता कटाक्षदृष्टिर्यस्याः सा । कन्दुकाबत्या या कटाक्षदृष्टिः सा कामे- नैव कारितेत्यर्थः । तदनुमार्गेति-तदनु तदनन्तरं कटाक्षपातानान्तरमित्यर्थः । मार्गे पथि विलसितया स्फुरन्त्या लीलया विलासेन अञ्चिते वक्रीकृते भ्रुवौ लते इव यया सा । श्वासानिलेति-श्वासानिलस्य निःश्वासमारुतस्य वेगेन जवेनान्दोलितैः कम्पितैः दन्तच्छदस्याधरस्य रश्मिजालैः प्रभापुञ्जैः, किम्भूतैः लीलार्थं क्रीडार्थं नवपल्लवै- रिव । मुखकमलेति-मुखकमलस्याननारविन्दस्य यः परिमलो गन्धस्तस्य ग्रहणाय ग्रहणार्थं लोलांश्चञ्चलान् । अलिनो भ्रमरान् । ताडयन्ती निवारयन्ती । ( ९ ) मण्डल भ्रमणेषु-चक्राकारगतिविशेषेषु । कन्दुकस्यातिशीघ्रप्रचारतया अतिवेगभ्रमणेन मदर्शनलज्जया मदवलोकनह्रिया पुष्पमयं कुसुमनिर्मितं पञ्जरं

ने, क्रीड़ास्थलमें आये हुए अनुरागवान् दर्शकोंद्वारा स्थूल और सूक्ष्मरूपेण वर्णित अपनी स्तुति प्रतिश्रवण की । मैं कोशदासके कंधेके सहारे खड़ा था । मुझे प्रतिक्षण विलास उत्पन्न हो रहा था । मेरे कपोल रोमाञ्चित हो रहे थे, मेरे नेत्र प्रफुल्लित हो रहे थे । उपर्युक्त लक्षणोंसे लक्षित मेरे ऊपर कटाक्ष कर रही थी । अतः मैं जहांपर खड़ा हुआ था वहींपर आकर उस राजकुमारीने प्रथमोत्पन्न कामदेवप्रेरित कटाक्ष दृष्टि फेंकी । तत्पश्चात्-कटाक्षोंके विक्षेपके पश्चात्-टेढ़ी-मेढ़ी लतारूपी भृकुटियोंद्वारा श्वासोच्छ्वासके वेगसे कम्पित और लीलापल्लवके समान धीरे धीरे कँपाती हुई अधरप्रभापुंजोंसे मुख- कमलकी सुगन्धको ग्रहण करनेमें अति चंचल भौरों को ताड़ित कर रही थी । ( ९ ) चक्राकार गतिसे उछलनेवाले कन्दुकको अत्यन्त शीघ्रतासे प्रक्षेपित करती

[Footer] Nepal Sanskrit University, Balmeeki Campus, Kathmandu

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · पृष्ठ 327, कुल 474 में से · BharatKosha