भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 33, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 33

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३३ (७१) बालकेन सत्त्वसंपन्नतया सकलक्लेशसहेनाभावि । केस- रिणा करिपं निहत्य कुत्रचिद्गामि । लतागृहान्निर्गतोऽहमपि तेजःपुञ्जं बालं शनैरवनीरुहादवतार्य वनान्तरे वनितामन्विष्यावलोकयैनमानीय गुरवे निवेद्य तन्निदेशेन भवन्निकटमानीतवानस्मि' इति । - (७२) सर्वेषां सुहृदामेकदैवानुकूलदैवाभावेन महदाश्चर्यं बिभ्राणो राजा 'रत्नोद्भवः कथमभवत्' इति चिन्तयंस्तन्नन्दनं पुष्पोद्भवनामधेयं विधाय तदुदन्तं व्याख्याय सुश्रुताय विषादसंतोषावनुभवंस्तदनुजतनयं समर्पितवान् । (७३) अन्येद्युः कंचन बालकमुरसि दधती वसुमती वल्लभमभि- (७१) सत्त्वसम्पन्नतया बलशालितया । सकलक्लेशसहेन सर्वप्रकारक्लेश- सहिष्णुना । केसरिणा सिंहेन । तेजसां पुञ्जं राशिं तेजस्विनमित्यर्थः । शनैर्मन्दं मन्दम् । अवनीरुहाद् वृक्षात् । अविलोक्य अप्राप्येत्यर्थः । एनं बालकम् । निवेद्य कथयित्वा । तन्निदेशेन गुरोराज्ञया । (७२) एकदैव युगपदेव । अनुकूलदैवाभावेन प्रतिकूलदैववशात् । महदाश्चर्यं परमविस्मयम् । बिभ्राणो धारयन् । कथं सर्वेषामस्माकं सममेव दैवं प्रतिकूलं जात- मिति विस्मयाकुलः सन्निति भावः। राजा राजवाहनः। रत्नोद्भवः कथमभवत्-रत्नोद्भवस्य का गतिर्जाता, तस्य किं जातमिति तात्पर्यम् । पुष्पोद्भवः नामधेयं नाम यस्य तम् । तदुदन्तं पूर्वोक्तं वृत्तान्तम् । व्याख्याय उक्त्वा । सुश्रुताय रत्नो- द्भवस्य ज्येष्ठसहोदराय । विषादसन्तौषौ विषादहर्षौ-रत्नोद्भवस्य विनाशाद् विषादः तत्पुत्रस्य लाभात्सन्तोष इति भावः । (७३) अन्येद्युः अन्यस्मिन् दिने । उरसि वक्षसि । दधती धारयन्ती । वल्लभं (७१) सत्त्वसम्पन्न शक्तिके प्रभावसे बालकने भी कष्टोंको सह लिया। वह सिंह भी उस गजपतिको मारकर चला गया। तब मैने लता-कुञ्जसे बाहर आकर तेजःपुञ्जरूपवाले इस बालकको वृक्षपरसे धीरेसे उतारा और वनमें इधर-उधर उस वृद्धाको खोजा। परन्तु खोजनेपर भी वह वृद्धा मुझे न मिली और मैंने इस बालकको लाकर गुरुदेवको दे दिया। फिर उनकी आज्ञा शिरोधार्य करके इसे आपके पास लाया हूँ । (७२) राजा हंसवाहन विचारने लगे - दैव प्रतिकूल होनेसे मेरे सभी मित्रोंपर एक साथ आपत्ति आयी । आश्चर्य है ! अब रत्नोद्भवका क्या हुआ ? ऐसा सोचकर इसपर चिन्तित भी हो गये। इसके पश्चात् उन्होंने इस लड़केका नाम पुष्पोद्भव रखा और सारा वृत्त सुश्रुतको सुनाकर विषाद एवं हर्षके साथ उसे समर्पण कर दिया । (७३) एक दिन किसी एक बालकको गोदमें लिये हुए महारानी वसुमती महाराज के ३ द० कु० पू० Nepal Sanskrit University, Balmeeki Campus, Kathmandu