दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 333, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३३३ विदितभावया मया स्वमात्रे तया च तन्मात्रे, महिष्या च मनुजेन्द्राय, निवेदयिष्यते । विदितार्थस्तु पार्थिवस्त्वया दुहितुः पाणि ग्राहयिष्यति । ततश्च त्वदनुजीविना राजपुत्रेण भवितव्यम् । एष हि देवतासमादिष्टो विधिः । त्वदायत्ते च राज्ये नालमेव त्वामतिक्रम्य मामवरोद्धुं भीमधन्वा तत्सहतामयं त्रिचतुराणि दिनानि' इति मामामन्य प्रियं चोपगृह्य प्रत्य- यासीत् । ( १४ ) मम च कोशदासस्य च तदुक्तानुसारेण बहुविकल्पयतोः दिव शम्बरद्विषा कामेनातिमात्रमप्यर्थम् आयास्यते पीड्यते । अयमर्थः विषयः । विदितभावया-ज्ञाताशयया । स्वमात्रे-निजजनन्यै-चन्द्रसेनाया मात्रे इत्यर्थः । तया चन्द्रसेनाजनन्य । तन्मात्रे तस्याः कन्दुकावत्या जनन्यै । महिष्या-राज्ञ्या मनुजेन्द्राय राज्ञे । निवेदयिष्यते-कथयिष्यते । विदितार्थः-ज्ञातवृत्तान्तः । त्वया मित्रगुप्तेन । दुहितुः स्वकन्यायाः कन्दुकावत्याः । पाणिं ग्राहयिष्यति-विवाहं कारयिष्यतीत्यर्थः । ततः विवाहानन्तरम् । त्वदनुजीविना त्वदायत्तेन । देवतास- मादिष्टः-दैवनिर्दिष्टः । विधिर्विधानम् त्वदायत्ते-भवदधीनीकृते । अलं समर्थः । त्वां भवन्तं मित्रगुप्तमित्यर्थः । अतिक्रम्योल्लंध्य । मां चन्द्रसेनामित्यर्थः । अवरोद्धुं बलान्निरोद्धुम् । तत् तस्मात् । सहतां अपेक्षताम् । अयं-कोशदासः । मां मित्र- गुप्तम् । आमन्त्र्य आभाष्य । प्रियं-दयितं कोशदासमिति यावत् । उपगृह्य आलिङ्ग्य । प्रत्ययासीत् प्रतिगता । ( १४ ) तदुक्तानुसारेण-चन्द्रसेना वचनानुसारेण । बहु अनेकप्रकारम् । विक- ल्पयतोः-जल्पतोः विशेषणमिदम् मम च कोशदासस्य चेत्यनेन चकाराच्चित्तस्य अभिलाष कर रही थी, इसी कारण कामदेव क्रोधसे राजकन्याको पीड़ित कर रहा है । राजकुमारीके भावको जाननेवाली मैं इन बातोंको अपनी मातासे कहूँगी, मेरी माता राजकुमारीकी मातासे कहेगी और वे राजमाता अपने पतिसे निवेदित करेंगी। इन बातोंको ज्ञातकर राजा अपनी पुत्रीका विवाह आपसे कर देंगे। तत्पश्चात् यह राजपुत्र आपके ही अधीन हो जायगा । क्योंकि देवताने यही विधानकी आज्ञा दी है। जब यह राज्य आपके अधिकारमें हो जायगा, तब यह राजपुत्र भीमधन्वा आपकी आज्ञाका उल्लंघन करके मुझे रोक नहीं सकता-विवाह करनेसे । अत एव तीन-चार दिनोंके कष्टोंको और झेलना चाहिये । ऐसे वाक्य मुझसे कहकर तथा अपने प्रियका आलिङ्गन करके वह चन्द्रसेना चली गयी । (१४) हम लोगोंने, उसी चन्द्रसेनाके कथनानुसार उसके वाक्योंपर विचार विनिमय Nepal Sanskrit University, Balmeeki Campus, Kathmandu