दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 339, कुल 474 में से
संदर्भ में पढ़ेंखरः शोणीभूतमुत्प्रभाभिः पद्मरागसोपानशिलाभिः किमपि नालीक- परागधूसरं सरः समध्यगाम्। (१६) स्नातश्च कांश्चिदसूनस्वादून्विसभङ्गानास्वाद्य, असंलग्नकह्ला- रस्तीरवर्तिना केनापि भीमरूपेण ब्रह्मराक्षसेनाभिपत्य 'कोऽसि, कुतस्त्यो- ऽसि' इति निर्भर्त्सयताऽभ्यधीये। निर्भयेन च मया सोऽभ्यधीयत-'सौम्य, सोऽहमस्मि द्विजन्मा। शत्रुहस्तादर्णवम्, अर्णवाद्यवननावम्, यवनना- वश्चित्रग्रावाणमेनं पर्वतप्रवरं गतः, यदृच्छयास्मिन्सरसि विश्रान्तः, भद्रं
बहुबहु असकृत् = वारंवारमिति यावत् । अलक्षितेति-अलक्षितमविदितं यथा तथा अध्यारूढं क्षोणीधरस्य पर्वतस्य शिखरं येन सः। शोणीभूतं रक्तीकृतम्। उत्प्र- भाभिः उद्गतकान्तिभिः। पद्मरागसोपानशिलाभिः मरकतमयसोपानपंक्तिभिः। शोणीभूतमित्यनेनान्वयः। किमपि-अनिर्वाच्यम्। नालीकेति-नालीकानां पद्मानां परागैः किञ्जल्कैर्धूसरं धूम्रवर्णं सरः सरोवरम् । समध्यगाम् प्राप्तवान् । (१९) स्नातः तत्र कृतस्नानः। अहमिति शेषः। अमृतस्वादून् सुधामधु- रान्। विसभङ्गान्-मृणालखण्डान्। आस्वाद्य उपभुज्य। अंसेति-अंसयोः स्कन्धयोर्लग्नं सक्तं कह्लारं जलजविशेषो यस्य सः । तादृशोऽहं तीरवर्त्तिना सर- स्तीरस्थितेन। भीमरूपेण-भीषणमूर्त्तिना ब्रह्मराक्षसेन देवयोनिविशेषेण । अभिपत्य आगत्य। कुतस्त्यः कुत आगतः। निर्भर्त्सयता-तर्जयता। अभ्यधीये उक्तोऽस्मि। स ब्रह्मराक्षसः। अभ्यधीयत उक्तः। द्विजन्मा-ब्राह्मणः। शत्रुहस्तात् वैरिकरात्। अर्णवं समुद्रं गत इति प्रत्येकं सम्बध्यते। यवननावं यवनपोतम्। यवननावः यवनपोतात्। चित्रग्रावाणं-चित्रा मनोहरा ग्रावाणः प्रस्तरा यत्र तादृशम्।
थीं। अतः मैं पुनः-पुनः उसी शोभाको देखता हुआ अज्ञात पर्वतके शिखर भागपर चढ़ गया। वहाँपर, पद्मरागमणिकी शिलाओंकी उत्कृष्ट प्रभासे रक्तीभूत तथा कमलोंके किञ्जल्कोंसे धूसरीभूत एक तालाबपर मैं पहुँचा। (१९) उस तालाबमें स्नान करके मैंने सुधाके समान मधुर मृणालखण्डोंका आस्वादन किया। कन्धेपर जलजविशेषको धारण करनेवाले, मुझसे उस तालाबके तीरवर्त्ती किसी भयङ्कररूपधारी ब्रह्मराक्षसने आकर कहा-'तुम कौन हो, कहाँसे आये हो ?' इस प्रकार जब उसने मुझे भयान्वित करते हुए पूछा तो मैंने निःशंक होकर उत्तर दिया- 'हे भद्र ! मैं ब्राह्मण हूँ। वैरीके हाथसे समुद्रमें फेंका गया। समुद्रसे यवनोंकी नावमें लाया गया। यवन नावसे इस श्रेष्ठ पर्वतपर आया हूँ। जिसके पत्थर बड़े मनोहर हैं।