दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 341, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३४१ ( २१ ) अत्रोदाहरणम्—'अस्ति त्रिगर्तों नाम जनपदः । तत्रासन्गृ- हिणस्त्रयः स्फीतसारधनाः सोदर्या धनकधान्यकधन्यकाख्याः । तेषु जीव- त्सु न ववर्ष वर्षाणि द्वादश दशशताक्षः, क्षीणसारं शस्यम्, ओषधयो वन्ध्याः, न फलवन्तो वनस्पतयः, क्लीबा मेघाः, क्षीणस्रोतः स्रवन्त्यः, पङ्कशेषाणि पल्वलानि, निर्निष्यन्दान्युत्समण्डलानि, विरलीभूतं कन्द- मूलफलम्, अवहीनाः कथाः, गलिताः कल्याणोत्सवक्रियाः, बहुलीभूतानि तस्करकुलानि, अन्योन्यमभक्षयन्प्रजाः, पर्यलुठन्नितस्ततो बलाकापाण्डु- ( २१ ) अत्र विषये । तत्र त्रिगर्ते । गृहिणो गृहस्थाः । आसन्-वसन्ति स्म । स्फीतसारधनाः-स्फीतं प्रचुरं सारं उत्कृष्टं काञ्चनरत्नादिधनं येषां ते । सोदर्याः सहोदराः । धनकेति-धनकः धान्यकः धन्यकश्चेति तेषां नामानि । तेषु धनका- दिषु । जीवत्सु तेषां जीवनकाल इत्यर्थः । द्वादशवर्षाणि द्वादशवर्षाणि यावत् । अत्यन्तसंयोगे द्वितीया । दशशताक्षः सहस्रनेत्र इन्द्र इति यावत् । न ववर्ष- अनावृष्टिरासीत् । क्षीणसारं-क्षीणो नष्टः सारः स्थिरांशो यस्य तत् । ओषधयो ब्रीह्यादयः । वन्ध्याः निष्फलाः । न फलवन्तः फलरहिताः । वनस्पतयो वृक्षाः । क्लीबाः निर्जलाः । क्षीणस्रोतसः-अत्यल्पप्रवाहाः । स्रवन्त्यो नद्यः । पङ्कशेषाणि पङ्कमात्रावशिष्टानि । पल्वलानि तडागानि । निर्निष्यन्दानि-क्षरणरहितानि । उत्स- मण्डलानि निर्झरसमूहाः । विरलीभूतं स्वल्पीभूतम् अवहीनाः क्षीणाः । कथाः भाषितानि जनानामिति शेषः । गलिताः नष्टाः । कल्याणोत्सवक्रियाः मङ्गलजन- कानि उत्सवानुष्ठानानि । बहुलीभूतानि-वृद्धिगतानि । अन्योन्यं परस्परमभक्षयन् प्रजाः प्रजास्वेकोऽन्यस्य मांसमत्तिस्मेत्यर्थः । पर्यलुठन् लुठन्तिस्म । बलाकापाण्डु- ( २१ ) मैंने कहा—'इनके उदाहरण सुनाता हूँ । एक त्रिगर्त नामका नगर है । उस नगरमें प्रचुर धनशाली तीन सगे भाई रहते थे जिनके नाम धनक, धान्यक और धन्यक थे । उनके जीवनकालमें ही इन्द्रने बारह वर्षोंतक निरन्तर (लगातार) वृष्टि न की । धानकी खेती क्षीण (नष्ट) हो गयी । व्रीह्यादि ओषधियां निष्फल (बन्ध्या) हो गयीं । वृक्षोंमें फल-फूल न रह गये । मेघ जलहीन हो गये । नदियोंका प्रवाह अत्यन्त अल्प हो गया । तालाब आदिमें केवल पंकमात्र (कीचड़) अवशिष्ट रह गया । झरनोंका बहना बन्द हो गया । कन्दमूल-फल आदि की उत्पत्तिमें कमी हो गयी । कथा-पुराण कम पढ़े जाने लगे । मंगलाचारयुक्त श्रेयस्कर अनुष्ठान आदि बन्द हो गये । चोरोंकी वृद्धि हो गयी । प्रजा प्रजाका ही मांस खाने लगी । मनुष्योंके मुण्ड बलाका पंक्तिके तुल्य इधर-उधर पड़े हुए दिखायी देने लग । बुभुक्षित कौओंका समूह Nepal Sanskrit University, Balmeeki Campus, Kathmandu