दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 371, कुल 474 में से
संदर्भ में पढ़ेंषष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३०१ क्षिप्य छुरिकयोरुमूले किंचिदालिख्य द्रुततरमपासरत् । सा तु सान्द्रत्रासा स्वमेव दुर्णयं गर्हमाणा जिघांसन्तीव श्रमणिकां तद्व्रणं भवनदीर्घिकायां प्रक्षाल्य दत्त्वा पटबन्धनं सामयापदेशापरं चापनीय नूपुरं शयनपरा त्रिचतुराणि दिनान्येकान्ते निन्ये । स धूर्तः 'विक्रेष्ये' इति तेन नूपुरेण तमनन्तकीर्तिमुपाससाद । स दृष्ट्वा 'मम गृहिण्या एवैष नूपुरः, कथम- यमुपलब्धस्त्वया' इति तमब्रुवाणं निर्बन्धेन पप्रच्छ । ( ४६ ) स तु 'वणिग्ग्रामस्याग्रे वक्ष्यामि' इति स्थितोऽभूत् । पुनरसौ
आच्छिद्य अवतार्य । छुरिकया शस्त्रिकया । आलिख्य क्षतं कृत्वा । अपासरत् पलायिष्ट । सा नितम्बवती । सान्द्रत्रासा अतिभीता । स्वं निजम् । दुर्णयं अनु- चिताचारम् । गर्हमाणा निन्दन्ती-कथं मया श्रमणिकाविश्वासेन एवं कृतमिति भावः । जिघांसन्तीव हन्तुमिच्छन्तीव । तद्व्रणं तत्क्षतम् । भवनदीर्घिकायां गृहा- न्तर्गतजलाशये । पटबन्धनं-पट्टिकाम् । सामयापदेशा-सामया सरोगा इति अपदेशः छलं यस्याः सा । पादे कश्चन रोगः सञ्जात इति कपटमाश्रित्येति भावः । अपरं अन्यचरणस्थितं नूपुरमपि । अपनीय-अपसार्य । शयनपरा-शयित्वैव । निन्ये यापयामास । स धूर्त्तः कलहकण्टकः । विक्रेष्ये-नूपुरविक्रयं करिष्यामीति कथय- न्नित्यर्थः । अनन्तकीर्त्तिं नितम्बवतीभर्त्तारम् । उपाससाद्-तत्समीपं जगाम । सः अनन्तकीर्त्तिः । उपलब्धः प्राप्तः । तं कलहकण्टकम् । अब्रुवाणं नूपुरप्राप्ति- वृत्तान्तमकथयन्तम् । निर्बन्धेन-आग्रहातिशयेन । ( ४६ ) स कलहकण्टकः । वणिग्ग्रामस्य-वणिक्समुदायस्य । अग्रे पुरतः ।
छूरीसे उसको जाँघमें हल्का प्रहारकर भाग गया । जांघमें प्रहारके पश्चात् वह नितम्बवती अतिभयान्वित हुई और वह अपने अनुचित आचारकी निन्दा करती हुई तथा उस संन्यासिनीको मारने की इच्छा करती हुई ( घर ) लौटी । ( घर आकर ) उसने अपने घावको बावलीमें धोया तथा पट्टी बाँधी । बीमारीका बहाना कर दूसरे नूपुरको दूर करके तीन-चार दिन एकान्तमें पड़ी रही । वह धूर्त्त कलहकंटक 'मैं नूपुरको बेचता हूँ' ऐसा कहते हुए उस अनन्तकीर्तिके समीप उपस्थित हुआ । उसने देखकर कि 'यह नूपुर तो मेरी पत्नीका ही है, इसे इसने कैसे प्राप्त किया ?' ऐसा सोचकर उस कलहकंटकको बुलाकर आग्रहसे उससे नूपुरप्राप्तिका वृत्तान्त पूछा । ( ४६ ) उसने उत्तर दिया कि 'मैं वणिक्समूहके समक्ष इस वृत्तान्तको कहूंगा ।' फिर उस अनन्तकीर्तिने अपनी पत्नीसे दोनों नूपुरोंको भेजनेके लिये सन्देश भेजा ।