भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 372, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 372

३७२ दशकुमारचरितम् । [ उत्तरपीठिकायां गृहिण्यै 'स्वनूपुरयुगलं प्रेषय' इति संदिदेश । सा च सलज्जं ससाध्वसं चाद्य रात्रौ विश्रामप्रविष्टायां वृक्षवाटिकायां प्रनष्टो ममैकः प्रशिथिलबन्धो नूपुरः । सोऽद्याप्यन्विष्टो न दृष्टः । स पुनरयं द्वितीय इत्यपरं प्राहिणोत् । अनया च वार्तयामुं पुरस्कृत्य स वणिक् वणिग्जनसमाजमाजगाम । स चानुयुक्तो धूर्तः सविनयमावेदयत्—'विदितमेव खलु वः, यथाहं युष्म- दाज्ञया पितृवनमभिरक्ष्य तदुपजीवी प्रतिवसामि । लुब्धाश्च कदाचिन्म- दर्शनभीरवो निशि दहेयुरपि शवानीति निशास्वपि श्मशानमधिशये । अपरेद्युर्दग्धादग्धं मृतकं चितायाः प्रसभमाकर्षन्तीं श्यामाकारां नारीमप- श्यम् । अर्थलोभात्तु निगृह्य साध्वसं सा गृहीता शस्त्रिकयोरुमूले यदृच्छया असौ अनन्तकीर्त्तिः। गृहिण्यै-भार्यासकाशे । सन्दिदेश-वार्त्तां प्रेषितवान् । सा नितम्बवती । ससाध्वसं सभयम् । विश्रामेति-विश्रमार्थं प्रविष्टायाम् । प्रनष्टः चरणात्रिपतितः। प्रशिथिलबन्धः शरीरकार्श्यात् श्लथबन्धनः । स नूपुरः । अपरं अन्यं नूपुरम् । अनया वार्त्तया-अनेन वृत्तान्तेन । अमुं नूपुरम् । पुरस्कृत्य गृहीत्वा । अनुयुक्तः पृष्टः । स धूर्त्तः कलहकण्टकः । आवेदयत् अकथयत् । विदितं ज्ञातम् । वः युष्माकम् वणिजामिति शेषः । युष्मदाज्ञया भवतामादेशेन । पितृ- वनं श्मशानम् । तदुपजीवी-तेन श्मशानरक्षणेन उपजीवति जीविकां करोतीत्येवं- शीलः । लुब्धाः धूर्त्ताः। मदर्शनभीरवः मदवलोकनभयशीलाः । निशि रात्रौ । अधिशये तिष्ठामि । अपरेद्युः अन्यस्मिन् दिने । दग्धादग्धं-कियद्दग्धं कियच्चादग्ध- मेतादृशं मृतकं शवम् । चितायाः चितामध्यात् । प्रसभं बलात् । श्यामाकारां कृष्णवर्णाकृतिम् । साध्वसं भयं निगृह्य परित्यज्य सा नारी । मया गृहीता धृता । उसने लज्जा और भयके साथ कहा कि आज रातको मैं विश्रान्तिके लिये वृक्षवाटिका में गयी थी। वहाँपर एक नूपुर, शरीरके कृश होनेके कारण ढीला पड़ गया था, गिर गया । उसे आज भी मैंने खोजा, किन्तु नहीं मिला। अस्तु, यह दूसरा नूपुर मेरे पास है इसे ले जाओ। इस उपर्युक्त कथनके साथ उस अनन्तकीर्तिने उस धूर्त्तको वणिक्- समुदायके समीप उपस्थित किया । वणिकोंद्वारा पूछे जानेपर उस धूर्तने विनयसे कहा—'आप लोगोंको ज्ञात ही है कि मैं आप लोगोंकी आज्ञासे श्मशानमें रक्षक बनकर उसीसे प्राप्त द्रव्यद्वारा अपना जीवन निर्वाह करता हूँ । मेरी उपस्थितिसे डरनेवाले धूर्त्त लोग कदाचित् रातमें शव न जला डालें इसी कारण मैं रातमें भी श्मशान ही में सोता हूँ । गत दिनकी रातमे मैंने चितापर जलनेवाले एक अर्धदग्ध शवको जबर्दस्तीसे खींचती हुई कृष्णवर्णवाली स्त्री देखी। धनके लोभसे भयको त्यागकर मैंने उसे पकड़ा