भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 385, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 385

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३८५ ( ६ ) दन्तच्छदकिसलयलङ्घनाहर्षास्रसलिलधाराशीकरकणजाल- क्लेदितस्य स्तनतटचन्दनस्यार्द्रतां निरस्यतास्यान्तरालनिःसृतेन तनीय- सानिलेन हृदयलक्ष्यदलनदक्षिणरतिसहचरशरस्यदायितेन तरङ्गितदशन- चन्द्रिकाणि कानिचिदेतान्यक्षराणि कलकण्ठीक्लान्ससृजत्—'आर्य, केन कारणेनैनं दासजनं कालहस्तादाच्छिद्यानन्तरं रागानिलचालितरणणि- कातरङ्गिण्यनङ्गसागरे किरसि । यथा ते चरणसरसिजरजःकणिका तथाहं- ( ६ ) दन्तच्छुदेति-दन्तच्छदः अधरः स एव किसलयस्तं लंघयति कम्पय- त्येवंशीलेन ओष्ठाधरकम्पिनेति यावत् । एतत्तु अनिलेनेत्यस्य विशेषणमेवमग्रे- ऽपि । हर्षास्रेति-हर्षेण निर्गता या अस्रसलिलधारा अश्रुजलपरम्परा तस्याः शीक- रकणजालेन बिन्दुलवनावहेन क्लेदितस्यार्द्रीकृतस्य-एतादृशस्य स्तनतटचन्दनस्य वक्षःस्थितचन्दनलेपस्य आर्द्रतां सरसतां निरस्यता अपनयता तथा आस्या- न्तरालनिःसृतेन मुखविवरनिर्गतेन तथा तनीयसा मृदुना । मुखनिःसृतेन अत एवोष्णेन मन्दसमीरेण हृदयचन्दनलेपः शुष्कतां गत इति भावः । पुनः कीदृशेन ? हृदयेति-हृदयं कामिजनचित्तमेव लक्ष्यं वेध्यं तस्य दलने भेदने दक्षिणो दक्षः पटुर्वा यो रतिसहचरः कामस्तस्य शरस्यदो बाणवेगस्तद्वदाचरितेन-एतदपि अनिलविशेषणम् । तरङ्गितेति-तरङ्गिता स्फुरिता दशनानां दन्तानां चन्द्रिका ज्योत्स्ना यैस्तादृशानि । एतानि वक्ष्यमाणानि । कलकण्ठीति-कलकण्ठो कोकिला तस्या इव कलानि मधुराणि अक्षराणीत्यस्य विशेषणम् । असृजत् उच्चारितवती । आर्य पूज्य । एनं दासजनं मामित्यर्थः । कालहस्तात् मृत्युकरात् । आच्छिद्य अप- कृप्य । रागेति रागोऽनुरागः स एवानिलो वायुस्तेन चालिताश्चञ्चलीकृताः रणर- णिका उत्कण्ठा एव तरङ्गा विद्यन्ते यस्मिंस्तादृशि अनङ्गः काम एव सागरः समुद्र- स्तस्मिन् । किरसि क्षिपसि । यथा यादृशी । ते तव । चरणसरसिजरजःकणिका रेखा बनाती हुई, अनुराग और लज्जायुक्त दोनोंमें रहती हुई, वक्राकार नाखूनकी ज्योति की चन्द्रिकावाले चरण की अंगुलिसे तथा अपने मुखकमलको नम्रकर भूमिपर लिखती हुई, ( ६ ) हर्षके आंसुओंकी जलधाराके लव समुदायसे अभिषिक्त अधररूपी किसलयको कंपाती हुई, अपने मुखविवरसे निकली हुई उष्ण मन्द पवनसे कुचों परके चन्दनके लेपको सुखाती हुई, कामीजनोंके चित्तोंको लक्ष्य मानकर भेदन करनेमें प्रवीण कामदेवके बाणके वेगके समान आचरण करती हुई, दांतोंकी ज्योत्स्नाकी स्फुरित करती हुई निम्नांकित कुछ अक्षरोंको कोयलकी वाणीके समान मधुर कण्ठसे बोली—'हे आर्य ! Nepal Sanskrit University, Balmeeki Campus, Kathmandu