भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 389, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 389

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३८६ सहशतस्य सहचरस्य च' इति । ततः सखीजनेनातिदक्षिणेन दृढतरी- कृतस्नेहनिगडस्तया संनताङ्ग्या संगत्यारंसि । ( ६ ) अथ कदाचिदायासितजायारहितचेतसि, लालसालिलङ्घ- नम्लानघनकेसरे, राजदरण्यस्थलीललाटलीलायिततिलके, ललितानङ्ग- राजाङ्गीकृतनिन्निद्रकर्णिकारकाञ्चनच्छत्रे, दक्षिणदहनसारथिरयाहृतसह- कारचञ्चरीककलिके, कालाण्डजकण्ठरागरक्तरक्ताधरारतिरणाग्रसंनाह- चरितार्थं कृतार्थं जायतामिति शेषः । तत इति—अतिदक्षिणेन अतिनिपुणेन अति- सरलेन वा सखीजनेन सहचरीवृन्देन दृढतरीकृतः सुश्लिष्टीकृतः स्नेहनिगडः प्रेम- पाशो यस्यैवं भूतोऽहं सन्नतांग्या कोमलशरीरया तया कनकलेखया सह संगत्य मिलित्वा अरंसि क्रीडितवान् । ( ९ ) अथेति—अथ तया सह संगत्यनन्तरम् कदाचित् कस्मिन्नपि काले । तमेव कालं विशिनष्टि—आयासितेति । आयासितानि खेदितानि जायारहितानां भार्या- वियुक्तानां चेतांसि हृदयानि यत्र तादृशे तथा लालसाः मधुलोलुपा ये अलयो भ्रमरास्तेषां लंघनेन विदलनेन म्लानाः क्लान्ताः घनाः निबिडाः केसराः पुंना- गवृक्षा यत्र तादृशि तथा राजत् शोभमानं अरण्यस्थल्या वनभूमिरूपाया नायि- कायाः ललाटे भाले लीलायितं विलासवदाचरितं तिलकं तिलकुसुमं यत्र तादृशे तथा ललितेन सुन्दरेण अनङ्ग एव राजा अनङ्गराजस्तेन अङ्गीकृतं स्वीकृतं धृत- मिति यावत् निन्निद्रो विकसितः कर्णिकारो वृक्षविशेष एव काञ्चनच्छत्रं हेमातपत्रं यत्र तादृशे तथा दक्षिणो मलयपर्वतादागतो यो दहनसारथिरग्निसहायः अनिल इत्यर्थस्तस्य रयेण वेगेन आहृता आनीता उत्पादिताश्च सहकारेषु आम्रतरुषु चञ्चरीका भ्रमराः कलिकाः कोरकाश्च यत्र तादृशि तथा कालाण्डजाः कोकिला- प्रान्त प्रगाढ़तासे आलिंगित किया जाय ।' तत्पश्चात् अति निपुण अथवा अति सरला सहचरियोंकेद्वारा मैं प्रेमपरिवद्ध किया गया । एवं प्रेमपाशमें सम्बद्ध होकर मैंने उस कृशांगीसे लिपटकर खूब रमण किया । ( ९ ) रमण करते हुए कुछ समय बीतनेके पश्चात्—रमणीहीन पुरुषोंके चित्तोंको क्लेशित करनेवाला, मधुलोलुपभ्रमरों द्वारा निविड़ पुंनाग वृक्षोंको क्लान्त करानेवाला, शोभायमान वनभूमिरूपा नायिकाके भालमें विलाससे तिलकुसुम धारण करानेवाला, सुन्दर कामदेव रूपी राजाद्वारा स्वीकृत विकसित कर्णिकारवृक्षरूपी स्वर्णछत्रवाला, मलयपर्वतसे आनेवाले अग्निके सहायक पवनवेग द्वारा उत्पादित आमकी कलियोंपर विराजमान भ्रमरोंवाला, कोयलोंकी मधुर कूक ( वाणी ) से अनुरागवाली रक्ताधरोष्ठियोंके रतिसंग्रामके प्रथम प्रयास में अग्रसर स्वभाववाला, अप्रगल्भ कन्याओके हृदयोंमें प्रेम Nepal Sanskrit University, Balmeeki Campus, Kathmandu

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · पृष्ठ 389, कुल 474 में से · BharatKosha