दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 396, कुल 474 में से
संदर्भ में पढ़ें३६६ दशकुमारचरितम् । [ उत्तरपीठिकायां ष्ठानधनदाज्ञाकरनिराक्रियातिसक्तचेतसः क्षत्रियस्याकर्षणायशक्तु । स चाहरहरागत्यादरेणातिगरीयासार्चयन्नथैश्च शिष्यान्संगृह्नन्नधिगतक्षणः कदाचित्काङ्क्षितार्थसाधनाय शनैरयाचिष्ट । ध्यानधीरः स्थानदर्शितज्ञान- संनिधिश्चैनं निरीक्ष्य निचाय्याकथयम्—'तात, स्थान एष हि यत्नः। तस्य हि कन्यारत्नस्य सकलकल्याणलक्षणैकराशेरधिगतिः क्षीरसागररश- नालङ्कृताया गङ्गादिनदीसहस्रहारयष्टिराजिताया घराङ्गनाया एवासाद- मुखनिर्गता तस्य क्षत्रियस्य जयसिंहस्य । कथम्भूतस्येत्याह-कनकेति-कनकलेखा अधिष्ठानमाश्रयो यस्य तादृशस्य धनदाज्ञाकरस्य कुबेरकिङ्करस्य यक्षस्य निरा- क्रियायां निराकरणे अतिसक्तं लग्नं चेतो यस्य तस्य । आकर्षणाय वशीकरणाय । अशक्तु समर्थोऽभवत् । स जयसिंहः । अहरहः प्रतिदिनम् । अतिगरीयसा- अत्यधिकेन । अर्थैः धनैः । संगृह्णन् आयत्तीकुर्वन् । अधिगतक्षणः प्राप्तावसरः काङ्क्षितार्थसाधनाय-अभीष्टसिद्ध्यर्थम् । शनैः मन्दं मन्दम् । अयाचिष्ट प्रार्थया- मास । ध्यानधीरः समाधिस्थिरः । स्थानेति-स्थाने योग्यपात्रे दर्शितः प्रकटितः ज्ञानस्य प्रज्ञायाः सन्निधिः सान्निध्यं येन सः । एनं जयसिंहम् । निचाय्य विचार्य । तात वत्स । स्थाने-युक्तः । यत्नः उद्यमः त्वया क्रियमाण इति शेषः । कन्यारत्न- स्य कन्यासु रत्नं श्रेष्ठं 'तस्य' । सकलेति-सकलानां सर्वेषां कल्याणलक्षणानां शुभ- चिह्नानां एकराशेरेकाश्रयस्य सर्वप्रकारमङ्गललक्षणाधारस्येत्यर्थः । कन्यारत्नस्य विशेषणमेतत् । अधिगतिः प्राप्तिर्लाभ इति यावत् । क्षीरेति-क्षीरसागरो दुग्धा- ब्धिरेव रशना मेखला तया अलंकृतायाः भूषितायाः । तथा गङ्गादीनां नदीनां सहस्रमेव हारयष्टिर्हारलता तया राजितायाः शोभितायाः धरा वसुमत्येवाङ्गना कामिनी तस्याः । आसादनाय प्राप्तये । साधनमुपायः । येनैतादृशं कन्यारत्नं लप्स्यते तेन ससागरा धरापि प्राप्स्यत इति भावः । न चेति-तदधिष्ठायी सा क्षत्रिय राजा जयसिंह भी मेरी कथाके वशीभूत हुआ। जिसका चित्त, कनकलेखाके ऊपर रहनेवाले कुबेरके सेवक उस यक्षको दूर भगानेमें, आसक्त हो रहा था। उस राजा जयसिंहने नित्य आकर अति आदरसे प्रचुर द्रव्यसे मेरी पूजा करके तथा भक्तोंको द्रव्यादिसे अपने अनुरूप कर लिया। एक दिन अवसर पाकर उस राजाने अपना अभीष्ट साधनाके हेतु मुझसे धीरेसे निवेदन किया समाधिस्थिर होकर मैंने, योग्यपात्रमें प्रज्ञाके सान्निध्यको लगाते हुए, उस राजा को देखकर कहा-'हे तात ! आपके द्वारा किया हुआ यह उद्योग युक्त ही है। उस कन्यारत्नकी प्राप्ति करना जो सम्पूर्ण मांगलिक चिह्नोंकी निधिके समान है, वैसा ही शुभप्रद है जैसे दुग्धसमुद्ररूपी करधनीको पहने