दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 403, कुल 474 में से
संदर्भ में पढ़ेंसप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ४०३ एष न निषिद्धः । तथास्थितश्च तदासादनदृढतराशयश्च स आख्यात— राजन् , अत्र ते जनान्ते चिरं स्थितम् , न चैकत्र चिरस्थानं नः शस्तम् । कृतकृत्यश्चेह न द्रष्टासि । यस्य ते राष्ट्रे ग्रासाद्यासादितं यस्य ते किंचिद- नाचर्य कार्यं गतिरार्यगर्ह्या' इति । तत्रैतच्चिरस्थानस्य कारणम् । तच्चाद्य सिद्धम् । गच्छ गृहान् । यथार्हजलेन हृद्यगन्धेन स्नातः सितस्रगङ्गरागः श- क्तिसदृशेन दानेनाराधितधरणितलतैतिलगणस्तिलस्नेहसिक्तयष्ट्यग्रग्रथित- विषयः । न निषिद्धः न निवारितः । तथास्थितः तथा कर्तुं प्रतिज्ञातः । तदासाद- नेति-तस्याः'कन्याया आसादने प्राप्तौ दृढतरः द्रढीयान् आशयोऽभिप्रायो यस्या- सौ । सः जयसिंहः । आख्यात कथितोऽभवत् मयेति शेषः । ते तव । जनान्ते जनपदे । चिरं दीर्घकालं यावत् । स्थितं-वासः कृतो मयेति शेषः । एकत्र एक- स्मिन् स्थाने । चिरस्थानं दीर्घकालमवस्थानम् । नः अस्माकं संन्यासिनामि- त्यर्थः । शस्तं प्रशस्तं नेति सम्बध्यते । कृतकृत्यः; सफलप्रयोजनत्वं इहास्मिन् स्थाने न द्रष्टासि नावलोकयिष्यसि मामिति शेषः । नाहमत्र स्थास्यामीति भावः । राष्ट्रे राज्ये । ग्रासादि भोजनादि । आसादितं-मया लब्धं तस्य तादृशस्य तव कार्यं प्रयोजनं अनाचर्य असम्पाद्य गतिरन्यत्रगमनम् आर्यगर्ह्या सज्जननिन्दनीया अनुचितेत्यर्थः । तत्रस्थाने चिरस्थानस्य एतदेव कारणं नान्यदित्यर्थः । तच्च कार्यम् । सिद्धं सम्पन्नम् । यथार्हं जलेन राजस्नानोचितसलिलेन हृद्यगन्धेन मनो- हरगन्धशालिना इदं जलेनेत्यस्य विशेषणम् । सितेति-सितौ शुभ्रौ स्रक् माल्यं अङ्गरागश्च यस्य सः । शुभ्रमाल्यधरः शुभ्रानुलेपनश्चेत्यर्थः शक्तिसदृशेन साम- र्थ्यानुसारेण । दानेन दानं कृत्वा । आराधितेति-आराधिताः सेविताः धरणि- उन लोगोने उस कार्यका निषेध न किया और वे राजसेवक उस तालाबके दोष देखनेमें असमर्थ थे । जब मैने देखा कि वह राजा तालाबमें प्रवेश करनेमें कटिवद्ध है और उस राजपुत्रीकी प्राप्तिके लिये सन्नद्ध है, तथा मैंने कहा-'हे राजन् ! आपके इस नगरमें मैं बहुत समयतक बसा । हम संन्यासियोंका एक ही स्थानमें दीर्घकालतक बास करना अनुचित है । कृतकृत्य होनेपर आप मुझे यहां नहीं देखेंगे । आपके इस राष्ट्रमें मैंने भोजन आदि प्राप्त किया था, यदि आपके कार्यको असम्पादित किये बिना मैं, यहांसे चला जाता तो, अनुचित कार्यका कर्त्ता होता । अतः आपके कार्यके सम्पादनार्थ मैं इस राष्ट्रमें दीर्घकालतक रहा । आपका वह कार्य आज सम्पादित हो गया । अब आप घर जायँ । और राजोचित सुगन्धित जलसे स्नान करें । सफेद माला तथा चन्दन आदि यथाक्रम धारण करें । अपन सामर्थ्यके अनुसार दान करें । ब्राह्मणोंकी पूजा करें। पुनः तिलके तेलसे भींगे हुए कपड़ेकी बत्तियोंको बांसोंके दण्डोंके अग्रभागमें लपेटकर