दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 41, कुल 474 में से
संदर्भ में पढ़ेंद्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४१ ( २ ) ‘भूवल्लभ, भवदीयमनोरथफलमिव समृद्धलावण्यं तारुण्यं नुत- मित्रो भवत्पुत्रोऽनुभवति । सहचरसमेतस्य नूनमेतस्य दिग्विजययारम्भस- मय एषः । तदस्य सकलक्लेशसहस्य राजवाहनस्य दिग्विजयप्रयाणं क्रियताम्’ इति । ( ३ ) कुमारा माराभिरामा रामाद्यपौरुषा रुषा भस्मीकृतारयो रयोप- हसितसमीरणा रणाभियानेन यानेनाभ्युदयाशंसं राजानमकार्षुः । तत्सा- चिव्यमितरेषां विधाय समुचितां बुद्धिमुपदिश्य शुभे मुहूर्ते सपरिवारं कुमारं विजयाय विससर्ज । ( ४ ) राजवाहनो मङ्गलसूचकं शुभशकुनं विलोकयन्देशं कंचिदति- ( २ ) भवदीयानां त्वदीयानां मनोरथानामभिलाषाणां फलमिव । समृद्धमति- शयेन वर्धितं लावण्यं सौन्दर्यं यस्मिन् तदिति तारुण्यविशेषणम्। नुतानि प्रशंसितानि मित्राणि सुहृदो यस्य सः । नूनं निश्चयेन । दिशां विजयस्यारम्भः प्रारम्भस्तस्य समयः कालः । अस्मिन्नेव समये दिग्विजयोद्योगः कर्त्तव्यः इत्यर्थः । सकलक्लेशस- हस्य सत्त्वसम्पन्नतया सकलक्लेशसहिष्णोः । दिग्विजयप्रयाणं दिग्विजययात्रा । ( ३ ) मारः कन्दर्पस्तद्वदभिरामा मनोहराः । रामो दाशरथिराद्यो येषां ते तेषां पौरुषमिव पौरुषं पराक्रमो येषां ते । रुषा कोपेन भस्मीकृता विनाशिता अरयः शत्रवो यैस्ते । रयेण वेगेनोपहसितस्तिरस्कृतः समीरणः पवनो यैस्ते । रणमभियातीति रणा- भियानं तेन रणाभियानेन रणाभिमुखेन । यानेन यात्रया । अभ्युदयेऽभ्युन्नतौ आशंका ०यस्य तम् । तस्य राजवाहनस्य साचिव्यं मन्त्रित्वं सहायत्वमिति यावत् । इतरेषां अन्यकुमाराणाम् । समुचितां विजययात्राय योग्याम् । सपरिवारं सपरिजनम् । विजयाय विजयं कर्तुमिति ‘तुमर्थाच्च भाववचनादि’ति चतुर्थी । विससर्ज प्रेषयामास । ( ४ ) मङ्गलसूचकं शुभोदर्कज्ञापकम् । शुभशकुनं सुनिमित्तम् । तत्र विन्ध्याट- ( २ ) हे पृथिवीपति ! अनुकूलसुहृद् आपका पुत्र राजवाहन आपके मनोरथ फलकी तरह समृद्ध-लावण्य तथा युवावस्थाका अनुभव करता है। अतः सहचर वर्गोंके सहित उसके दिग्विजय करनेका यह समय अच्छा है। इसलिये उसे आप दिग्विजयार्थ भेज देवें । ( ३ ) कामदेवके सदृश मनोहर तथा श्रीरामचन्द्रादिके समान पराक्रमशील एवं कोपसे ही अरिवर्गको भस्म करनेमें समर्थ और वेगमें पवनको भी तिरस्कृत करनेवाले कुमारवर्गकी रणयात्राके द्वारा राज्यश्रीका अभ्युदय निश्चित होगा । यह बात परिज्ञात करके उस राजहंस ने अन्य कुमारोंको कुमार राजवाहनके साहाय्यके लिए नियुक्त किया तथा समुचित उपदेशों को देकर शुभ मुहूर्तमें परिजनोंके साथ राजवाहनको विजय करनेके लिए भेज दिया । ( ४ ) कुमार राजवाहन यात्रामें मंगलसूचक शुभ लक्षणों ( शकुनों ) को देखता हुआ Nepal Sanskrit University, Balmeeki Campus, Kathmandu