दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 42, कुल 474 में से
संदर्भ में पढ़ें[Page Header] ४२ दशकुमारचरितम् । [ पूर्वपीठिकायां
[Main Text] क्रम्य विन्ध्याटवीमध्यमविशत् । तत्र हेतिहतिकिणाङ्कं कालायसकर्कश- कायं यज्ञोपवीतेनानुमेयविप्रभावं व्यक्तकिरातप्रभावं लोचनपरुषं कमपि पुरुषं ददर्श । (५) तेन विहितपूजनो राजवाहनोऽभाषत - 'ननु मानव, जनस- ङ्गरहिते मृगरहिते घोरप्रचारे कान्तारे विन्ध्याटवीमध्ये भवानेकाकी किमिति निवसति । भवदं सोपनीतं यज्ञोपवीतं भूसुरभावं द्योतयति । हेतिहतिभिः किरातरीतिरनुमीयते । कथय किमेतत्' इति । (६) 'तेजोमयोऽयं मानुषमात्रपौरुषो नूनं न भवति' इति मत्वा स पुरुष-
[Sanskrit Commentary] व्याम् । हेतीनामस्त्राणां हतिभिः प्रहारैर्यै किणाः शुष्कव्रणास्तेषामङ्काश्चिह्नानि य- स्मिन् तम् । कालायसं लोहमिव कर्कशः कठोरः कायो देहो यस्य तम् । यज्ञोपवीतेन यज्ञसूत्रेण । अनुमेयोऽनुमातुं योग्यो विप्रभावो द्विजत्वं यस्य तम् । व्यक्तः प्रकटितः किरातप्रभावो वनचरसामर्थ्यं येन तम् । यज्ञसूत्रेण ब्राह्मणोऽसावित्यनुमीयते, स्वरूपादिना तु किरातोऽयमिति स्पष्टं ज्ञायत इति भावः । लोचनयोर्नेत्रयोः परुषं कर्कशं भीषणदर्शनमित्यर्थः । (५) तेन किरातवेषधारिणा पुरुषेण । विहितपूजनः कृतसत्कारः । जनसङ्ग- रहिते । मनुष्यसम्पर्कशून्ये । मृगहिते पशूनामेव हितकरे । घोरो भयजनकः प्रचारः सञ्चारो यस्मिंस्तस्मिन् । किमिति किमर्थम् । भवतस्तव अंसं स्कन्धदेशमुपनीतं प्राप्तम् । भूसुरभावं विप्रभावम् । द्योतयति सूचयति । हेतिहतिभिः शस्त्राघातचिह्नः । किरातरीतिः । वनचरव्यवहारः । अनुमीयते तर्क्यते । (६) तेजोमयः प्राचुर्ये मयट् तेन तेजःपुञ्जशरीर इत्यर्थः । अयमिति राजवाह-
[Hindi Commentary] विन्ध्याटवीमें प्रविष्ट हो गया । वहाँपर उसने एक भयंकर नेत्रवाले मनुष्यको देखा-जो जनेऊ धारण करनेसे तो ब्राह्मण ज्ञात होता था किन्तु, उसके शरीरपर अनेक आयुधोंके आघातों के व्रण थे । उसका शरीर लोहेके समान कर्कश तथा काला दिखाई देता था । उसे देखनेसे ऐसा प्रतीत होता था जैसे कोई किरात हो । (५) उस मनुष्यने कुमार राजवाहनका स्वागत-सत्कार किया । सत्कारके अनन्तर राजवाहनने पूछा- हे मानव ! मनुष्योंसे विहीन इस विन्ध्याटवीके गहन वनमें क्यों आप निवास कर रहे हैं ? यह वन तो हिरणोंके हितके लिए तथा हिंसक जानवरोंके विचरणयोग्य है । आपके कन्धेपर धारण किया हुआ यज्ञोपवीत 'आप ब्राह्मण' हैं ऐसा सूचित कर रहा है किन्तु, देहमें लगे शस्त्रास्त्रके घावोंसे आप किरातोंके समान आचरण करनेवाले हैं ऐसा प्रतीत हो रहा है । बतलावें इसका क्या कारण है ? (६) इस तेजःपुञ्जाकृतिवाले मनुष्यकी शक्ति साधारण पुरुषोंके समान नहीं है अतः