दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 433, कुल 474 में से
संदर्भ में पढ़ेंअष्टमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४३३ न्मार्जनम् , अश्राव्यशंसिभिरनर्गलप्रलापैर्विश्वासोपबृंहणम् , मत्सराननु- बन्धादानन्दैकतानता, शब्दादीनामिन्द्रियार्थानां सातत्येनानुभवः, संवि- भागशीलतया सुहृद्वर्गसंवर्गणम् , अनुपमानमङ्गलावण्यम् , अनुत्तराणि विलसितानि, भयार्तिहरणाच्च साङ्ग्रामिकत्वमिति । ( २१ ) वाक्पारुष्यं दण्डो दारुणो दूषणानि चार्थनामेव यथावका- शमौपकारिकाणि । नहि मुनिरिव नरपतिरुपशमरतिरभिभवितुमरिकुल- मलम् , अवलम्बितं च लोकतन्त्रम्' इति । विस्मरणात् । अश्राव्यं श्रावयितुमयोग्यं यत्तस्यापि शंसिभिः सूचकैः । अनर्गल- प्रलापैर्यथेच्छमनर्थकवचनैः । विश्वासस्योपबृंहणं वर्द्धनम् । मत्तः सन्नश्राव्यमपि श्रावयति तेन च जनानां विश्वासः समुत्पद्यते । यदयं सारल्येनास्माभिरश्राव्यमपि वक्तीति भावः । मत्सरस्य मात्सर्यस्य अननुबन्धादधारणात् । आसवपानेन मात्सर्ये न तिष्ठतीति प्रसिद्धिः । एकतानता तत्परता । इन्द्रियार्थानां चक्षुरादीन्द्रियविषया- णाम् । सातत्येन नैरन्तर्येण । आगतेभ्यः सर्वेभ्योऽपि मद्यस्य सम्यग् वण्टनं संवि- भागः तच्छीलतया सुहृद्वर्गस्य संवर्गणमेकत्रीकरणम् । अनुत्तराणि अलौकिकानि । संग्रामे साधुः सांग्रामिकः तस्य भावः । युद्धपटुत्वमित्यर्थः । ( २१ ) एतावता व्यसनसप्तके मृगयादीनां चतुर्णामुपकारकत्वं प्रतिपादित- मघुना अवशिष्टं वाक्पारुष्यादित्रयमपि राज्ञामुपकारकमिति वक्ति वाक्पारुष्येति— वाक्पारुष्यमेकं, दारुणो दण्डो दण्डपारुष्यं द्वितीयम्, अर्थानां दूषणानि चेति तृतीयं, तान्यपि यथावकाशं यथावसरमुपकारकाणीति । नहीति—उपशमे शान्तौ रतिरनु- रागो यस्यासौ—तादृशो मुनिर्यथा अरिकुलं कामादिशत्रुवर्गं जेतुं समर्थस्तथा शान्तो नरपतिररिकुलं पराजेतुं लोकतन्त्रं राष्ट्रसाधनमवलम्बितुं धारयितुञ्च नालमित्यर्थः । अनेकों अपराधोंको क्षमा करनेके कारण चित्तके उद्वेग दूर हो जाते हैं। रहस्य एवं गुप्त बातों की सूचनासे और व्यर्थकी बकवादसे भी विश्वास उत्पन्न करा देनेकी क्षमता आ जाती है । राग-द्वेष दूर हो जानेके कारण परमानन्द ही परमानन्द दिखायी पड़ता है । शब्द स्पर्श रूप रस आदिके अनुभव होते रहते हैं । परस्पर बाँट कर खाने-पीनेसे अपने परिजनों और सगे-सम्बन्धियोंमें एकता बनी रहती है । शरीरकी सुन्दरता भी असाधारण- तया बढ़ जाती है । भोग-विलासों का सर्वोत्कृष्ट सुख प्राप्त होता रहता है । युद्ध-कौशल भी प्राप्त होता है तथा भयके कारण उत्पन्न होनेवाला सकट टालते रहनेसे समर-नैपुण्य भी प्राप्त होता है । ( २१ ) इसी प्रकारसे कटु वचन, कठोर दण्ड और अर्थापहरण ( दूसरेके धनके