दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 46, कुल 474 में से
संदर्भ में पढ़ें४६ दशकुमारचरितम् । [ पूर्वपीठिकायां ( ११ ) तदारभ्याहं किरातकृतसंसर्गं बन्धुवर्गमुत्सृज्य सकललोकैक- गुरुमिन्दुकलावतंसं चेतसि स्मरन्नस्मिन्कानने दूरीकृतकलङ्को वसामि । 'देव, भवते विज्ञापनीयं रहस्यं किंचिदस्ति । आगम्यताम्' इति । ( १२ ) स वयस्यगणादपनीय रहसि पुनरेन मभाषत-'राजन्, अतीते निशान्ते गौरीपतिः स्वप्नसन्निहितो निद्रामुद्रितलोचनं विबोध्य प्रसन्नवद- नकान्तिः प्रश्रयानतं मामवोचत्-'मातङ्ग, दण्डकारण्यान्तरालगामिन्या- स्तटिन्यास्तीरभूमौ सिद्धसाध्याराध्यमानस्य स्फटिकलिङ्गस्य पश्चादद्रिप- तिकन्यापदपंक्तिचिह्नितस्याश्मनः सविधे विधेशाननमिव किमपि बिलं ( ११ ) किरातैः कृतः संसर्गः सम्बन्धो येन तमिति बन्धुवर्गस्य विशेषणम् । उत्सृज्य त्यक्त्वा । सकलस्य लोकस्य संसारस्यैकोऽद्वितीयो गुरुस्तम् । इन्दोः कला अवतंसः शिरोभूषणं यस्य तं शिवमित्यर्थः । दूरीकृतकलङ्को निष्कलङ्को निष्पाप इति यावत् । विज्ञापनीयं कथनीयम् । रहस्यं गोप्यम् । ( १२ ) स मातङ्गः । वयस्यगणात् सुहृन्मण्डलात् अपनीय दूरं नीत्वा । रहसि निर्जने । एनं राजवाहनम् । अतीते विगते । निशान्ते रात्रिशेषे । स्वप्ने स्वप्नावस्था- यां संनिहितः समीपमागतः । निद्रया मुद्रिते निमीलिते लोचने यस्य तम् । विबोध्य जागरयित्वा प्रसन्ना सौम्यमधुरा वदनस्य मुखस्य कान्तिः शोभा यस्य सः । प्रश्रये- ण विनयेनानतं नम्रशिरसम् । दण्डकारण्यस्य तदाख्यवनस्य अन्तराले मध्ये गामि- न्या गमनशीलायास्तटिन्या नद्याः । सिद्धैः गुह्यकादिभिः साध्यैः गणदेवताभिश्च आराध्यमानस्य उपास्यमानस्य । स्फटिकलिङ्गस्य स्फटिकनिर्मितशिवस्य । अद्रिपतेः हिमालयस्य कन्यायाः पार्वत्याः पदपंक्त्या चरणपद्धत्या चिह्नितस्याङ्कितस्य । अश्मनः पाषाणस्य । सविधे समीपे । विधेर्ब्रह्मणः । आननं मुखम् । बिलं विवरं विप्र मुझे लिपिविज्ञान, नाना शास्त्र, तन्त्रके सिद्धान्त, पापनाशक सदाचार एवं ज्ञानसे भगवान् शिवकी पूजा-विधिका सदुपदेश देकर तथा मेरे द्वारा दी हुई दक्षिणा आदिको ग्रहण कर चला गया । (११) उसी दिनसे किरातोंके साथ रहनेवाले बान्धवोंको त्यागकर मैं समस्त भुवनोंके एक- मात्र कारण भगवान् शङ्करकी सेवामें दृढ़ चित्त हो उन्हींको जपता हुआ इस विपिनमें सब पापोंको छोड़कर रह रहा हूँ । हे देव, आपसे एकान्तमें मुझे कुछ कहना है, अतः यहाँ आयें और सुनें । (१२) सुहृद्-मण्डलसे अलग लेजाकर उसने राजवाहनसे कहा—हे राजन्, गत रात्रिमें भगवान् शिवने मुझे सोते हुए जगाया तथा कहा—हे मातङ्ग, दण्डकारण्यके मध्यमें होकर बहनेवाली नदीके तीरपर सिद्ध और गणदेवोंसे आराध्यमान स्फटिक-निर्मित शिवलिंगके पीछे पार्वती देवीके चरणश्रेणीसे चिह्नित प्रस्तरके समीप ब्रह्माके मुखके सदृश एक विवर है ।