दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 47, कुल 474 में से
संदर्भ में पढ़ेंद्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४७ विद्यते । तत्प्रविश्य तत्र निक्षिप्तं ताम्रशासनं शासनं विधातुरिव समादाय विधिं तदुपदिष्टं दिष्टविजयमिव विधाय पाताललोकाधीश्वरेण भवता भवितव्यम् । भवत्साहाय्यकरो राजकुमारोऽद्य श्वो वा समागमिष्यति' इति । तदादेशानुगुणमेव भवदागमनमभूत् । साधनाभिलाषिणो मम तोषिणो रचय साहाय्यम्' इति । (१३) 'तथा' इति राजवाहनः साकं मातङ्गेन नमितोत्तमाङ्गेन विहा- यार्धरात्रे निद्रापरतन्त्रं मित्रगणं वनान्तरमवाप । तदनु तदनुचराः कल्ये- साकल्येन राजकुमारमनवलोकयन्तो विषण्णहृदयास्तेषु तेषु वनेषु सम्य- गन्विष्यानवेक्षमाणा एतदन्वेषणमनीषया देशान्तरं चरिष्णवोऽतिसहि- ष्णवो निश्चितपुनःसंकेतस्थानाः परस्परं वियुज्य ययुः । छिद्रमिति यावत् । तत् बिलम् । निक्षिप्तं स्थापितम् । ताम्रशासनं ताम्रफलकम् । शासनमादेशम् । समादाय गृहीत्वा । तत्र ताम्रशासने उपदिष्टं लिखितम् । दिष्टस्य भाग्यस्य विजयं विजयकारिणम् 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिर्'त्य- मरः । भवतस्तव साहाय्यकारी । श्वः आगामिदिने । तदादेशानुगुणं तदादेशा- नुरूपम् । साधनाभिलाषिणः तत्कार्यसिद्धिं कामयतः । तोषिणः सन्तुष्टस्य । रचय कुरु । (१३) तथा 'एवमस्तु' इति प्रार्थनां स्वीकृत्येत्यर्थः । नमितोत्तमाङ्गेन नम्र- शिरसा । विहाय परित्यज्य । मित्रगणमिति शेषः । अर्धरात्रे निशीथे । निद्रापरतन्त्रं निद्राकुलम् । वनान्तरं अपरं वनम् । कल्ये प्रभाते । 'प्रत्यूषोऽहर्मुखं कल्यमि'त्यमरः । साकल्येन सामस्त्येन—सर्वे सर्वत्र अन्विष्यापि इत्यर्थः । विषण्णं खिन्नं हृदयं येषां ते । अनवेक्षमाणाः अपश्यन्तः । एतस्य कुमारस्य अन्वेषणस्यानुसन्धानस्य मनी- षया बुद्ध्या । चरिष्णवः भ्रमणशीलाः । अतिसहिष्णवः क्लेशसहनशीलाः । निश्चितं निर्णीतं पुनःसंकेतस्थानं पुनःसंगमस्थानं यैस्ते । वियुज्य पृथग्भूय । उस विवर (बिल) में प्रविष्ट होकर वहां धरे हुए ताम्रपत्रको ब्रह्माके आदेशके समान ले लो और उस ताम्रपत्रमें लिखी हुई विधिको सौभाग्यसे प्राप्त विजयकी भांति स्वीकार करो और तुम पातालाधिपति बन जाओ इस कार्यमें तुम्हारी सहायता करनेवाला एक राजपुत्र आज कलतक तुम्हारे समीप आ जायगा । भगवान्के आदेशानुसार ही आपका आगमन हुआ है अतः आप अब मेरी सहायता करें । (१३) 'मैं सहायता करूंगा' ऐसा कहकर राजवाहन आधी रातके समय निद्राके वशी- भूत मित्रवर्गोंको छोड़कर प्रणामार्थ नतमस्तक मातंगके साथ वनान्तरमें चला गया । प्रभात समयमें राजवाहनको खोजनेपर भी उसके सेवकोंने न पाया और वे बड़े दुःखी हुए । इसके पश्चात् वे लोग उसे खोजने अन्य अरण्योंमें गये । देशान्तरमें खोजनेके लिए जानेवाले