दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 53, कुल 474 में से
संदर्भ में पढ़ेंतृतीयोच्छ्वासः (१) 'देव, भवच्चरणकमलसेवाभिलाषीभूतोऽहं भ्रमन्नेकस्यां वना- वनौ पिपासाकुलो लतापरिवृतं शीतलं नदसलिलं पिबन्नुज्ज्वलाकारं रत्नं तत्रैकमद्राक्षम् । तदादाय गत्वा कंचनाध्वानमम्बरमणेरत्युष्णतया गन्तुम- क्षमो वनेऽस्मिन्नेव किमपि देवतायतनं प्रविष्टो दीनाननं बहुतनयसमेतं स्थविरमहीसुरमेकमवलोक्य कुशलमुदितदयोऽहमपृच्छम् । (२) कार्पण्यविवर्णवदनो मदाशापूर्णमानसोऽवोचदग्रजन्मा—'महा- भाग, सुतानेतान्मातृहीनाननेकै रुपायै रक्षन्निदानीमस्मिन्कुदेशे भैक्ष्यं सं- पाद्य दद्देतेभ्यो वसामि शिवालयेऽस्मिन्' इति । (१) सोमदत्तः कथयति देवेति-भवतस्तव चरणकमलयोः पादपद्मयोः सेवायां शुश्रूषायां अभिलाषीभूतः साभिलाषः । वनाव नौ काननप्रदेशे । तत्र नदसलिले । कञ्चन कियन्तम् । अम्बरमणेः सूर्यस्य । देवतायतनं देवमन्दिरम् । दीनं विषण्णं आननं मुखं यस्य तम् । बहुभिरनेकैस्तनयैः पुत्रैः समेतं युक्तम् । स्थविरमहीसुरं वृद्धब्राह्मणम् । कुशलं क्षेमम् अपृच्छमित्यस्य कर्म । उदितोत्पन्ना दया करुणा यस्य सः । अहं सोमदत्त इत्यर्थः । (२) कार्पण्येन दैन्येन विवर्णं मलिनं वदनं मुखं यस्य सः । महत्या प्रचु- रया आशया आकाङ्क्षया उपस्थितोऽयं मह्यं किञ्चिदवश्यं प्रदास्यतीत्येवंरूपया पूर्णं मानसं यस्य सः । अग्रजन्मा ब्राह्मणः । इदानीं सम्प्रति । कुदेशे निकृष्टस्थाने । भैक्ष्यं भिक्षाचरणम् । एतेभ्यः सुतेभ्यः । सोमदत्तचरित (१) हे देव ! आपके पादपद्मोंका सेवाभिलाषी मैं पर्यटन करता हुआ एक दिन एक वनमें पहुँचा । वहाँ प्याससे आकुलीभूत होकर लताओंसे आच्छादित नदीके जलको पीकर पर्यटन करने लगा । उसी विपिन स्थलमें एक समुज्ज्वल रत्नको पड़ा हुआ मैंने देखा और उसे उठा लिया । कुछ दूर आगे बढ़ा तो सूर्य भगवान्के प्रचण्ड तेज आतपको न सह सका और चलनेमें अशक्त होकर उसी विपिनके एक देव-मन्दिरमें घुस गया । वहाँपर दीन मुखवाले बहुतसे पुत्रोंके साथ बैठे हुए एक वृद्ध ब्राह्मण—पिताको देखा । मुझे उनपर दया आ गयी । मैंने उस वृद्धसे कुशल प्रश्न किये । (२) दीनताके कारण विवर्णमुख तथा विशाल आशाओंसे परिपूर्ण चित्त होकर उस वृद्ध विप्रने उत्तर दिया—हे महाभाग ! मातृहीन इन पुत्रोंका पालन अनेक प्रकारके यत्नों द्वारा इस कुदेशसे भिक्षाटन करके करता हुआ इसी शिवालयमें रहता हूँ । Nepal Sanskrit University, Balmeeki Campus, Kathmandu