दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 56, कुल 474 में से
संदर्भ में पढ़ें५६ दशकुमारचरितम् । [ पूर्वपीठिकायां इति निगदितान्कांश्चिन्निदिष्टवन्तो मामपि निगदितचरणयुगलमकार्षुः । किंकर्त्तव्यतामूढेन निराशक्लेशानुभवेनावाचि मया—'ननु पुरुषा वीर्यप- रुषाः, निमित्तेन केन निर्विशथ कारावासदुःखं दुस्तरम् । यूयं वयस्या इति निर्दिष्टमेतैः, किमिदम्' इति । (७) तथाविधं मामवेक्ष्य भूसुरान्मया श्रुतं लाटपतिवृत्तान्तं व्या- ख्याय चोरवीराः पुनरवोचन्—'महाभाग ! वीरकेतुमन्त्रिणो मानपालस्य किङ्करा वयम् । तदाज्ञया लाटेश्वरमारणाय रात्रौ सुरुङ्गाद्वारेण तदगारं प्रविश्य तत्र राजाभावेन विषण्णा बहुधनमाहृत्य महाटवीं प्राविशाम । अपरेद्युश्च पदान्वेपिणो राजानुचरा बहवोऽभ्येत्य धृतधनचयानस्मान्परितः इत्यर्थः । सखायः सुहृदः । निगदितान् संयमितान् शृङ्खलाबद्धान् इति यावत् । निर्दिष्टवन्तो दर्शयन्तः । निगदितं बद्धं चरणयुगलं पादद्वयं यस्य तम् । किं कर्तव्यं यस्य तस्य भावः किंकर्त्तव्यता तस्यां मूढो मन्दस्तेन, अधुना किं कार्यमित्यजानते- त्यर्थः । निर्नास्ति आशा यस्य तस्य यः क्लेशः खेदस्तस्यानुभवो यस्मिन् तथा- भूतेन । नन्विति सम्बोधने । वीर्येण पराक्रमेण परुषाः कठोराः । निर्विशथ अनु- भवथ । दुस्तरमपारम् । वयस्याः सुहृदः । निर्दिष्टं कथितम् । एतै राजभटैः । (७) तथाविधं तथाकारं निगदितचरणमित्यर्थः । व्याख्याय मम पुरत उक्त्वा । किंकराः सेवकाः । तदाज्ञया वीरकेतोरादेशेन । सुरुङ्गाद्वारेण बिलमार्गेण । तदागारं तस्य लाटपतेरगारम् , गृहम् । राजाभावेन राज्ञोऽनुपस्थित्या । विषण्णाः दुःखिताः । आहृत्यादाय । अपरेद्युः अन्यस्मिन् दिने तत्परदिवस इत्यर्थः । पदान्वेषिणः चरण- चिह्नमनुसरन्तः । अभ्येत्य अस्मत्समीपमागत्य । धृतो रक्षितो धनानां रत्नानां चयो उन्होंने मेरे कथनपर कुछ भी ध्यान नहीं दिया और कारागारमें लाकर मुझसे कहा-'देखो ये सब तुम्हारे मित्र हैं' तथा जो चोर वहाँ पूर्वसे कैद थे उनको दिखाकर मुझे भी-मेरे दोनों पैरोंको-निगडित कर दिया । किंकर्त्तव्यविमूढ होकर तथा उस कारागारसे मुक्तिका कोई अन्य उपाय न देखकर मैंने उन बन्दियोंसे कहा— ऐ वीरो ! तुम लोग इतने बलिष्ठ होकर क्यों इस कारावासके कठिन दुःखोंको झेल रहे हो और इन राजपुरुषोंने तुम लोगोंको निर्देशित करके मुझे तुम लोगोंका मित्र कहा है, इसका क्या अभिप्राय है ? (७) मेरे प्रश्नपर तथा मुझे निगडित दशामें देखकर और मेरे द्वारा विप्रके मुखसे सुने हुए लाटपतिके वृत्तान्तको सुनकर वे चोर बोले—'हे सौम्य ! राजा वीरकेतुके मंत्री मानपालके हम लोग दास हैं । उन्हीं मंत्रीकी आज्ञासे हम लोग राजाको मारनेके लिए सुरंगके द्वारा रातमें राजाके आगारमें गये । परन्तु, राजाको न पाकर खिन्न मन होकर वहाँकी अतुल धन