दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 58, कुल 474 में से
संदर्भ में पढ़ें५८ दशकुमारचरितम् । [ पूर्वपीठिकायां
द्राव्यमानपालशिविरं प्राविशम् । मानपालो निजकिङ्करेभ्यो मम कुलाभि- मानवृत्तान्तं तत्कालीनं विक्रमं च निशम्य मामार्चयत् । ( ६ ) परेद्युर्मत्तकालेन प्रेषिताः केचन पुरुषा मानपालमुपेत्य 'मन्त्रिन्, मदीयराजमन्दिरे सुरुङ्गया बहुधनमपहृत्य चोरवीरा भवदीयं कटकं प्रा- विशन्, तानर्पय । नो चेन्महाननर्थः भविष्यति' इति क्रूरतरं वाक्य- मब्रुवन् । तदाकर्ण्य रोषारुणितनेत्रो मन्त्री 'लाटपतिः कः, तेन मैत्री का, पुनरस्य वराकस्य सेवया किं लभ्यम्' इति तान्निरभर्त्सयत् । ते च मान- पालेनोक्तं विप्रलापं मत्तकालाय तथैवाकथयन् । कुपितोऽपि लाटपतिर्दो- र्वीर्यगर्बेणाल्पसैनिकसमेतो योद्धुमभ्यगात् । पूर्वमेव कृतरणनिश्चयो मानी मानपालः संनद्धयोधो युद्धकामो भूत्वा निःशंकं निरगात् । अहमपि सबहु-
तया । निजपराक्रमेणेत्यर्थः । अभिद्राव्य दूरमपवाह्य प्रपलाय्येति यावत् । तत्का- लीनं तस्मिन् काले कारागृहान्निर्गमनसमये भवं जातम् । आर्चयत् सत्कृतवान् । ( ९ ) परेद्युः तत्परदिने । कटकं सैन्यमण्डलम् । अनर्थः अहितम् । रोषेण क्रोधेन अरुणिते रक्ते नेत्रे नयने यस्य सः । तेन सहेति शेषः । वराकस्य निकृष्टस्य । निर- भर्त्सयत् अतर्जयत् । विप्रलापं विकृतवचनम् । तथैव यथाश्रुतं तथैव । दोर्वीर्यस्य भुजविक्रमस्य गर्वेणाहङ्कारेण पूर्वमेव प्रागेव कृतो रणस्य युद्धस्य निश्चयो निर्णयो येन सः । युद्धमवश्यम्भावीति प्रागेव निर्द्धारितमित्यर्थः । संनद्धा युद्धाय सज्जिता योधा भटा यस्य सः । सबहुमानं सादरं क्रियाविशेषणमेतत् । बहुलैरसंख्यैः
मानपालके शिविर में जा पहुँचे । मानपालने अपने भृत्यों द्वारा मेरे कुल तथा मेरी कीर्ति और वीरगाथाकी प्रसिद्धि तथा उस समयके किये पराक्रमको मुग्धतापूर्वक सुना और हम लोगोंका अति आदर-सत्कार किया । ( ९ ) तदनन्तर दूसरे दिन मत्तकाल द्वारा प्रेषित सेवकों ने मानपाल मन्त्रीके समीप आकर कहा—'हे मन्त्रिन् ! मेरे राज-मन्दिर में सुरंग द्वारा प्रविष्ट होकर बहुत माल-असबाबको लेकर चोरवीरोंने तुम्हारे शिविर में प्रवेश किया है उन्हें तुम मुझे सौंप दो अन्यथा महान् अनर्थ होगा।' ऐसे कटु वाक्योंको सुनकर क्रोधसे रक्तवर्ण आँखें किये हुए मानपालने कहा- 'अरे, कौन लाटपति, मैंने उससे मित्रता कब की ? उस अधमकी दासतासे मुझे क्या लाभ ? उपर्युक्तरीत्या राजपुरुषोंकी खूब भर्त्सना मानपालने की । उन राजसेवकोंने मत्तपालसे आकर ज्योंका त्यों सभी बातें कह दीं । यह सुनकर लाटपति अपने भुजबलके अखर्व गर्वसे क्रोधान्ध हो गया । अपने साथ थोड़ासा सैन्य लेकर मानपालसे युद्ध करने चला आया । पहलेसे ही युद्धके लिए उद्युक्त मानी मानपाल भी निःशंक होकर युद्धार्थ शिविरसे निकल पड़ा । मैं भी