भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 95, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 95

शीरघनसारमिलितानि तदभिषेककल्पितानि सलिलानि बिसतन्तुमयानि वासांसि च नलिनीदलमयानि तालवृन्तानि च सन्तापहरणानि बहूनि संपाद्य तस्याः शरीरमशिशिरयत् । तदपि शीतलोपचरणं सलिल- मिव तप्ततैले तदङ्गदहनमेव समन्तादाविश्चकार। किंकर्त्तव्यतामूढां विष- ण्णां बालचन्द्रिकामीषदन्मीलितेन कटाक्षवीक्षितेन बाष्पकणाकुलेन वि- रहानलोष्णनिःश्वासग्लपिताधरया नताङ्ग्या शनैः शनैः सगद्गदं व्य- लापि—'प्रियसखि, कामः कुसुमायुधः पञ्चबाण इति नूनमसत्यमुच्यते । इयमहमयोमयैरसंख्यैरिषुभिरनेन हन्ये । सखि, चन्द्रमसं वडवानलाद- तितापकं मन्ये । यदस्मिन्नन्तःप्रविशति शुष्यति पारावारः, सति निर्गते


अभिषेकाय स्नानाय कल्पितानि स्थापितानि । बिसतन्तुमयानि मृणालसूत्र- रचितानि । अशिशिरयत् शीतलीचकार । सलिलमिव तप्ततैले-तप्ततैले जल निक्षेपाद् यथा तैलस्याधिकतप्तता जायते तद्वत् तस्याः शरीरे कृतेन शीतलोपचारेण तस्या दाहाधिक्यमेव जातमिति भावः । दहनम् अग्निम् । किंकर्त्तव्यतामूढामधुनाकिंकर्त्त- व्यं तन्निश्चेतुमशक्नुवानाम् । विरह एवानलस्तस्योष्मनिःश्वासेन ग्लपितः म्लानोऽ- धरो यस्यास्तया । काम इति—कामस्य आयुधानि कुसुमानि, तस्य बाणा अपि पञ्च- संख्यका एवेति यदुच्यते तन्मिथ्या । यतोऽयोमयैर्लोहनिर्मितैरसंख्यैः संख्यातुमश- क्यैः इषुभिर्बाणैः अनेन कामेन हन्ये हतास्मि । अहमिति शेषः । यस्मिन्निति । यस्मिन् चन्द्रमसि । अस्तसमये चन्द्रः पारावारे प्रविशति तदा पारावारस्य वृद्धिनं भवति, उदयसमये तु पारावारस्य वृद्धिर्भवति-अतो ब्रवीमि चन्द्रस्यान्तः स्थित्या पारावारः शुष्यति निर्गमेण च वर्धत इति । अत एव च वाडवाग्नेरधिकतापकरः हिम-


कर्पूर आदि मिश्रित जल उसके स्नानार्थ ले आयीं । कमालतन्तुओंके वस्त्र तथा कमलके पत्रोंके पंखे और सन्तापहरण करनेवाला बहुतसी वस्तुएँ लाकर उसके शरीरपर उपचार करने लगीं परन्तु वे शीतलोपचारकी वस्तुएं उसे और दाहक प्रतीत होने लगीं और शीतलता न दे सकीं । वे वस्तुयें तपे तेलमें पानीके बिन्दुके समान हुई अर्थात्-तापको शान्त न कर सकीं । किं- कर्त्तव्यविमूढ़ा, दुःखी बालचन्द्रिकाको उसने आँखोंमें आँसू भरे नेत्रोंसे देखा । उस समय विरहव्यथाग्निसे उसका मुख उदास हो गया था तथा सर्वाङ्ग मुरझा गये थे । विलाप करती हुई वह गद्गदस्वरमें बोली—हे प्रिय सखी ! संसारी पुरुषोंकी यह बात सर्वथा असत्य हं कि कामदेवके पाँचों बाण पुष्प-निर्मित हैं वह तो मुझे असंख्य लोहेके तीरोंसे छेद रहा है— मारे डाल रहा है । हे सखी, जिस चन्द्रमाको लोग हिमराशि कहते हैं वह मुझे वाडवाग्निसे भी अधिक सन्तापप्रद मालूम पड़ रहा है । यदि ऐसा नहीं होता तो क्योंकर समुद्र इसके

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · पृष्ठ 95, कुल 474 में से · BharatKosha