दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 96, कुल 474 में से
संदर्भ में पढ़ें६६ दशकुमारचरितम् । [ पूर्वपीठिकायां तदैव वर्धते । दोषाकरस्य दुष्कर्म किं वर्ण्यते मया । यदनेन निजसोदर्याः पद्मालयाया गेहभूतमपि कमलं विहन्यते । ( १८ ) विरहानलसंतप्तहृदयस्पर्शेन नूनमुष्णीकृतः स्वल्पीभवति मल- यानिलः । नवपल्लवक्लृप्तं तल्पमिदमनङ्गाग्निशिखापटलमिव सन्तापं तनोस्तनोति । हरिचन्दनमपि पुरा निजयष्टिसंश्लेषवदुरगरदनलिप्तोल्ब- णगरलसंकलितमिव तापयति शरीरम् । तस्मादलमलमायासेन शीतलो- पचारे । लावण्यजितमारो राजकुमार एवागदंकारो मन्मथज्वरापहरणे । सोऽपि लब्धुमशक्यो मया । किं करोमि' इति । (१६) बालचन्द्रिका मनोज्ज्वरावस्थापरमकाष्ठां गतां कोमलाङ्गीं तां
प्रकर इति । दोषां रात्रिं करोतीति दोषाकरश्चन्द्रः, दोषाणामाकरश्च । निजसोदर्याः स्वभगिन्याः । लक्ष्मीचन्द्रौ समुद्राज्जाताविति प्रसिद्धिः । विहन्यते मुकुलीक्रियते । ( १८ ) विरहानलेन सन्तप्तस्य हृदयस्य स्पर्शेन उष्णीकृत उत्तप्तीकृतो मलयानिलः स्वल्पीभवति नूनं मन्ये । उष्णवस्तुसंसर्गादन्योऽपि शुष्यति अतः स्वल्पीभाव उष्णत्वञ्च तस्य भवतीति भावः । नवपल्लवकॢप्तं नूतनकिसलयरचितम् । पुरा प्राक् । निजयष्ट्याः स्वशाखायाः संश्लेषवतः सम्पर्किणः उरगस्य सर्पस्य रदनेन दन्तेन लिप्तं युक्तं यदुल्बणं तीव्रं गरल विशं तेन संकलितं व्याप्तम् । चन्दनतरौ सर्पाणां वासः प्रसिद्धः । हरिचन्दनमपि विषलिप्ततया शरीरस्य तापजनकत्वेनोत्प्रेक्ष्यते । तस्मादिति—युष्माभिर्यद् यत् शीतलयोपन्यस्यते तत्सर्वमेव मे सन्तापदायकं भवति—अतो निरर्थकमेव—युष्माभिर्निर्वर्त्यताम् इति भावः । अगदंकारश्चिकित्सकः । ( १९) परमकाष्ठाम् अतिशयम् । अनन्यशरणामनन्यगतिकाम् । स्मरणीयां
(चन्द्रके ) कृष्णपक्षमें प्रवेश करनेपर सूखने लगता है । और शुक्लपक्षमें इसके बाहर आ जानेपर पुनः बढ़ने लगता है । मैं इस चन्द्रके दुष्कर्म कहाँ तक कहूँ । यह अपनी सगी बहिन लक्ष्मीके आधारभूत कमलोंको भी मुकुलित कर देता है। ( १८ ) मेरी वियोगरूपी अग्निके द्वारा सन्तप्त हृदयके स्पर्शमात्रसे उष्ण होकर मलय पवन भी अल्प हो जाता है । नवीन पल्लवों द्वारा रचित मेरी शय्या तथा बिछौने कामाग्नि के शिखा-समूहके समान मेरे शरीरको जलाये डाल रहे हैं । चन्दनके वृक्षोंपर लिपटे सर्पों के दाँतोंके द्वारा गलित विष साक्षात् मूर्त्तिमान होकर चन्दनके लेपके रूपमें मुझे सन्तप्तित कर रहा है । अतः इन शीतलोपचारवाली वस्तुओंसे मेरा उपचार वृथा है । अपने सौन्दर्य से कामदेवको जीतनेवाले राजवाहन ही इस कामज्वरको हटानेमें समर्थ हैं । परन्तु खेद है, कि वे अप्राप्य हैं । हाय अब क्या करूँ ? (१९) जब बालचन्द्रिकाने देखा कि राजकुमारी सखी अवन्तिसुन्दरी कोमलांगी