भारतकोश
धनुर्वेद संहिता (महर्षि वसिष्ठ - प्राचीन भारतीय युद्धकला, धनुर्विद्या एवं अस्त्र-शास्त्र सटीक)

धनुर्वेद संहिता (महर्षि वसिष्ठ - प्राचीन भारतीय युद्धकला, धनुर्विद्या एवं अस्त्र-शास्त्र सटीक)

Dhanurveda Samhita of Maharshi Vasishtha with Commentary

महर्षि वसिष्ठ (टीकाकार: स्वामी हरिदयालु जी महाराज) द्वारा

DevanagariHindipublished76 पृष्ठ

पृष्ठ 66, कुल 76 में से

संदर्भ में पढ़ें
पृष्ठ 66

६० धनुर्वेदसंहिता अथैतेषामुदाहरणक्रमः कोटं वेष्टयत कोटे विशत, कोटमुपरि यात, अश्वानुपर्यारोहत, अश्वांश्चारयत, अश्वान् जलं पाययत्, अश्वपतयो भल्लैनैव बाटिकाभोजनं पाचयत, जलं पिबत, द्विजातयश्चणकान्नं चर्वयत, तथा जलं पिबत, जलाभावे शीतलीकुरुत, अश्वानारुह्य धावत,पदातयः समीकं परवाहिनीं यात,खड्गैः कृन्तत, भल्लैर्विध्यत,रंजकंदंशितं दहत,कपाटे कुन्तैस्त्रोटयत, वटिका आयान्ति निपतत, दुष्टान् कुन्थत, डमरुं वादयत, गीतं गायत, वामपार्श्वे अयत, दक्षिणपार्श्वे इत सपदि व्रजत, शनैर्व्रजत, अनुव्रजत, अग्रे व्रजत, तूष्णीं भवत, भीरूँस्त्यजत, शूरान् विध्यत, चर्मणा वटिकां रुन्ध, रंजकं दत्त, उपाऽऽगच्छत, दूरं गच्छत, शेध्वम्, जाग्रत, वस्त्राणि, परिधापयत कटिं बध्नीत, शस्त्राणि धारयत, प्रधनार्थं गच्छत, पदा- तयोऽग्रे अश्वपतयः पश्चात्, गजारूढास्तदनुः रथिनोन्तिमस्थाः, पदो- तयस्तिष्ठत समीके, अश्ववाराः प्राच्यामित, गजपाः पश्चिमे चलत । धावनप्रकारः अश्वेषु पल्याणारोपयत, प्रग्रहम्, प्रतिहत, अंकुशेन हस्तिनं रुन्ध, अश्वेष्वारोहयत,हस्तिपका ध्वजान्गृहीत,अश्वपतयो युद्ध्यत,अनश्वैर्भारं वहत, उष्ट्रभारोद्वहनं विदधत, उष्ट्रपका उष्ट्रान्नयत, अश्वपामेहत, सारथिनः शकटेषु वस्तूनि स्थापयत, वृषभान् योजयत चलत, दाशाः कबन्धान् दोलासु क्षिपत, व्रणसहितानपि, सूर्यपृष्ठगाश्चलत, सूर्यदक्षिण- गाश्चलत, वायुपृष्ठगाश्चलत, वायुदक्षिणगाश्चलत, चन्द्राभिमुखाश्चलत चन्द्रवामगाश्चलत ॥ अन्यच्च ऋजवः संप्रयात आलीढम् प्रत्यालीढम् चलत, तिष्ठत प्राङ्मुखाः, प्रत्यङ्मुखाः,अवाङ्मुखाः, उत्तरास्याः, आग्नेय्याम्, वायव्याम्, नैर्ऋत्याम्, ऐशान्याम्, एकस्य प्रत्यक् एको गच्छतु, पूर्ववत्, कमलाकाराः, व्यलीक- कमलाकाराः, धनुरारोपणम्, तोलनं लस्तकं गृहाण, प्रहारम्, अवहारम्, भुशुण्डीलक्ष्यम् अस्त्राघातं, संहारास्त्रम्,नृपाभिमुखाः प्रणम्य गच्छत, श्वः श्वः शिबिरम्, सन्ध्याकालो जातो युद्धेनालम् ॥१॥