द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 115, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । १०७ माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं मधुजातयः । माक्षिकं प्रवरं तेषां विशेषाद्भ्रामरं गुरु ॥ १८ ॥ माक्षिकं तैलवर्णं स्याद् घृतवर्णन्तु पौत्तिकम् । क्षौद्रन्तु कपिलं विद्यात् श्वेतं भ्रामरमुच्यते ॥ १९ ॥ नौषधीनां रससम्भवाच्च। उष्णे विरुध्येत विशेषतस्तु तथा- न्तरीक्षेण जलेन चापि। सौकुमार्य्यादिति सुकुमारं हि उष्णे विरुध्यते। नवनीतस्यानघृतजलकुसुमवत्। तथैव शैत्या- दिति शीतस्य स्वभावत एव उष्णविरोधात्। नानौषधीनां रससम्भवाच्चेति विरुद्धरसवीर्य्यनानाद्रव्यपुष्पस्य रसेन द्रवेण सम्भवादुत्पत्तेरित्यर्थः। खाम्बुना शीतेनापि मधुनो विरोधित्वे द्रव्यस्वभावमात्रं हेतुः। उष्णविरोधयोश्चास्पर्शैरिव नोष्णवीर्य्यै- स्तेनोष्णवीर्य्यत्रिकट्वादिना मधु न विरुध्यते। एतच्चोष्ण- विरोधित्वमार्घ्यं मधु विहाय बोध्यम्। तस्य विपान्वयत्वासम्भ- वात्। अतएवोक्तं भोजे। मधून्यष्णैर्विरुध्यन्तेऽन्यत्रार्घ्यादिति ॥ १७ ॥ यद्यपि सुश्रुतेऽष्टविधं मधूक्तम्। यथा। पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च। आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥ इति। तथापि मधुनश्चतुर्विधत्वमेव सर्वजनप्रसिद्ध- मिति कृत्वा चरकवचनमुपन्यस्यति। पिङ्गला मक्षिका महत्यः पुत्तिकास्तद्भवं पौत्तिकम्। भ्रामराः प्रसिद्धाः। मक्षिका एव स्वल्पाः पिङ्गलाः क्षुद्रास्तद्भवं क्षौद्रम्। तद्विधा एवास्वल्पा मक्षिकास्तद्भवं माक्षिकम् ॥ १८ ॥ माक्षिकादिज्ञानार्थं वर्णविशेषानाह माक्षिकमिति ॥ १९ ॥