द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 119, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः। १११ हृद्यः प्रवाहिकाटोपदुर्नामानिलशोधनुत् । वक्कसो हृतसारत्वाद्विष्टम्भी वातकोपनः ॥ ९ ॥ शीधुः पित्तानिलहरः श्लेष्मस्नेहविकारहा । मेदःशोथोदरार्शोघ्नो वल्यः पक्वरसो मतः ॥ १० ॥ जरणीयो विबन्धघ्नः स्वरवर्णविशोधनः । लेखनः शीतरसिको हितः शोफोदरार्शसाम् ॥ ११ ॥ गौड़ः शीधुः कषायः स्यात् स्वादुः पाचनदीपनः १२ शार्करो मधुरो हृद्यो दीपनो वस्तिशोधनः । वातघ्नो मधुरः पाके रुच्य इन्द्रियबोधनः ॥ १३ ॥ शीधुर्मधूकपुष्पोत्थो विदाह्यग्निवलप्रदः । रूक्षः कषायः कफहा वातपित्तप्रकोपणः ॥ १४ ॥ जगलो भक्तकिण्वकिक्ककृतः सुरा तस्या गुणमाह ग्राह्येति ॥ ८ ॥ भेदकगन्धद्रव्यविक्रियमाणवक्कसगुणमाह हृद्य इति ॥ ९ ॥ पक्केक्षुरसकृतशीधुगुणमाह शीधुरिति। पक्वरसः कथितेक्षु- रसेषु यः क्रियते ॥ १० ॥ अपक्केक्षुरसकृतशीधुगुणमाह जरणीय इति। शीतरसिको- ऽपक्केक्षुरसकृतः ॥ ११ ॥ गुड़कृतशीधुगुणमाह गौड़ इति ॥ १२ ॥ शर्कराकृतशीधुगुणमाह शार्कर इति। इन्द्रियबोधन इन्द्रि- यपाटवजनकः ॥ १३ ॥ अयन्तु न गुड़योनिः ॥ १४ ॥