द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 120, कुल 176 में से
संदर्भ में पढ़ें११२ द्रव्यगुणः । जाम्बवो बद्धनिष्यन्दस्तुवरो वातकोपनः ॥ १५॥ तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् । मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः ॥१६॥ तीक्ष्णः कषायो मदकृद् दुर्नामकफगुल्मनुत् । क्रिमिमेदोऽनिलहरो मैरेयो मधुरो गुरुः ॥ १७ ॥ निर्दिशेद् द्रव्यतश्चान्यान् कन्दमूलफलासवान् ॥ १८ नवं मद्यमभिष्यन्दि दोषकृज्जीर्णमन्यथा ॥ १६ ॥ जम्बुफलरसगुड़ादिकृतशीधुगुणानाह जाम्बव इति । बद्ध- निष्यन्दो बद्धमूत्रः । तुवर इति कषायः । तौवर इति पाठे तौवर इति जाम्बवविशेषणं वदन्ति । जम्बुफलरसतुवरोक्वाथ- गुड़ादिकृतः शीधुरित्यर्थः ॥ १५ ॥ इदानीं पृथङ्मधुगुड़पिष्टयोनिमद्यान्यभिधाय मध्वादि- योनिमेलननिष्पाद्यं किञ्चिदौषधयुक्तं मद्यमासवसंज्ञकं निर्दि- शन्नाह तीक्ष्ण इति । सुरा पौष्टी सैवं यत्र तोयकार्य्यं करोति स सुरासवः ॥ १६ ॥ मैरेयगुणमाह तीक्ष्ण इति । आसवस्य सुरायाश्च द्वयोरेकत्र भाजने । सन्धानं तं विजानीयात् मैरेयमुभयाश्रयमिति ॥१७॥ अनुक्तासवगुणज्ञानार्थमाह निर्दिशेदिति । द्रव्यत इति । द्रव्यगुणतो वीक्ष्य कन्दाद्युपलक्षणम् । तेन काण्डत्वक्पल्लवा अपि ग्राह्याः ॥ १८ ॥ मद्यस्याल्पकालत्वादिना अपरिणतस्य तथा चिरकालत्वा- दिना परिणतस्य दोषगुणानाह नवमिति । जीर्णमिति कालेन परिपक्वम् ॥ १६ ॥