द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 121, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । ११३ अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ॥ २० ॥ बहुदोषहरश्चैव रोगाणां शमनश्च सः । दीपनः कफवातघ्नः सरः पित्ताविरोधनः ॥ शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः ॥ २१ ॥ अरिष्टासवशीधूनां गुणान् कर्माणि चादिशेत् । बुद्ध्वा यथा स्वं संस्कारमवेक्ष्य कुशलो भिषक् ॥ २२ ॥ सान्द्रं विदाहि दुर्गन्धि विरसं क्रिमिलं गुरु । अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् ॥ अल्पौषधं पर्युषितमत्यच्छं पिच्छिलञ्च यत् । तद्वर्ज्यं सर्वथा मद्यं किञ्चिच्छेषञ्च यद्भवेत् ॥ २३ ॥ अरिष्टगुणमाह अरिष्ट इति । अरिष्टशब्देन इक्षुविकारस- हिताभयाचित्रकदन्तीपिप्पल्यादिभूरिभेषज-क्वाथ्यादिसंस्कारवत् मद्यमभिधीयते । द्रव्यसंयोग इति अभयाचित्रकादिद्रव्यसंयोगः । संस्कारस्तु भेषजक्वाथनभाजनसंस्कारयवराशिस्थापनादिः ॥ २० ॥ अधिकगुणत्वमेवाह बह्विति । बहुदोषहर इत्यस्य भाष्यं कफवातघ्नः पित्ताविरोधेन इति । नञ् ईषदर्थे । रोगाणां शमन इत्यस्य तु भाष्यं शूलाध्मानेत्यादि । तेन न पौनरुक्त्यम् । किंवा शेषार्थमेतद्वचनमित्याहुः । दोषाणां शमन इति पाठेऽपि दोष- शब्दो रोगवचन एवेति ज्ञेयम् ॥ २१ ॥ अरिष्टप्रसङ्गेनासवशीधूनामपि बहुप्रपञ्चेनेहानुक्तानां गुण- ज्ञानार्थमाह अरिष्टेति । संस्कारमवेक्ष्येति संस्कारद्रव्यगुणान् बुद्ध्वा ॥ २२ ॥ यादृशं मद्यं वर्ज्यं तदाह सान्द्रमिति । तरुणमिति मन्द-