द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 122, कुल 176 में से
संदर्भ में पढ़ें११४ द्रव्यगुणः । चिरस्थितं जातरसं दीपनं कफवातजित् । रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् ॥२४॥ शुक्तं वलाशपित्तासृक्क्लेदि वातानुलोमनम् । भृशोष्णतीक्ष्णारूक्षाम्लं हृद्यं रुचिकरं सरम् । दीपनं शिशिरं स्पर्शे पाण्डुहत्कृमिनाशनम् ॥२५॥ तद्वत्तदास्रुतं सर्वं रोचनन्तु विशेषतः ॥ २६ ॥ गौड़ानि रसशुक्तानि मधुशुक्तानि यानि च । जातम् । एतच्चोक्तमपि समुदितदोषाभिधानप्रस्तावात् पुनरु- च्यते ॥ २३ ॥ सेव्यं यन्मद्यं तदाह चिरस्थितमिति ॥ २४ ॥ आसुतत्वसामान्यात् शुक्तादिगुणकर्मणी दर्शयन्नाह शुक्त- मिति । शुक्तलक्षणं यथा । यन्मस्त्वाद्वि शुचौ भाण्डे सगुड़क्षौद्रकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ इति । अत्रैव गुड़ादिमानं यथा । गुड़माक्षिकधान्याम्लमस्तु च द्विगुणं क्रमात् । शुक्तसिद्धार्थमावाप्यं प्रायशः कंटुकञ्च तत् ॥ इति ॥२५॥ शुक्तप्रक्षिप्तकन्दादिषु शुक्तगुणानभिदिशति । तदास्रुत- मिति । शुक्तसन्धानक्षिप्तमार्द्रककरीरादि तद्वदिति शुक्तसमान- गुणम् ॥ २६ ॥ शुक्तस्य योनिभेदेन गुणमाह गौडानीति । गौड़ानि गुड़- प्रकृतित्तशुक्तानि । रसशुक्तानि इक्षुरसकृतशुक्तानि । एतच्छुक्तत्रय- ज्ञानार्थंपरि भाषा यथा ।