द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 123, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । ११५ यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च ॥ २७ ॥ काञ्जिकं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्शशीतलम् । भ्रमक्लमहरं रुच्यं दीपनं वस्तिशूलनुत् ॥ शस्तमास्थापने हृद्यं लघुवातकफापहम् । गण्डूषधारणाद्वक्त्रमलदौर्गन्ध्यशोषजित् ॥ २८ ॥ एभिरेव गुणैर्युक्ते सौवीरकतुषोदके । क्रिमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे ॥ २९ ॥ मूत्रं गोजाविमहिषगजाश्वोष्ट्रखरोद्भवम् । पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु ॥ गुड़ाम्बुना सतैलेन सन्धानं संस्कृतं तु यत् । कन्दशाकफलैर्युक्तं गुड़शुक्तं तदुच्यते ॥ इति । गुड़शुक्तवदिक्षुरसशुक्तं ज्ञेयम् । जम्बीरस्य फलरसं पिप्पलीमूलसंयुतम् । मधुभाण्डे विनिक्षिप्य धान्यराशौ निधापयेत् । त्र्यहेण तज्जातरसं मधुशुक्तमुदाहृतम् ॥ इति ॥ २७ ॥ काञ्जिकगुणमाह काञ्जिकमिति । पित्तकरस्यापि काञ्जि- कस्य दाहशमकत्वं यत् सुश्रुतेनोक्तं तत् स्पर्शेनैव ज्ञेयम् । अन्ये तु यथा तक्रं कण्ठे कफं करोति उदरे तु हन्ति प्रभावात् तद्व- दवापि पित्तकरस्यापि काञ्जिकस्य दाहहरत्वं प्रभावेणैव ज्ञेय- मित्याहुः ॥ २८ ॥ सौवीरतुषोदकयोर्गुणमाह एभिरिति । वितुषयवकृतं सौ- वीरं सतुषयवक्षतं तुषोदकम् ॥ २९ ॥ द्रव्यपारिशेष्यान्मूत्राण्याह मूत्रमिति । अत्र व्यवहारसिद्ध-