द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 124, कुल 176 में से
संदर्भ में पढ़ें११६ द्रव्यगुणः। क्रिमिशोफोदरानाहशूलपाण्डुकफानिलान् । गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल्लघु ॥ दीपनं पाचनं भेदि तेषु गोमूत्रमुत्तमम् ॥ ३० ॥ गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् । लघ्वग्निदीपनं मेध्यं पित्तलं कफवातनुत् ॥ गुल्मशूलोदरानाहविरेकास्थापनादिषु । मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ॥ ३१ ॥ दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु । आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥ ३२॥ कटु तिक्तान्वितं छागमौष्ण्यमारुतकोपनम् ॥ ३३ ॥ सक्षारतिक्तकटुकमुष्णं वातघ्नमाविकम् ॥ ३४ ॥ आश्वं कफहरं मूत्रं वातचेतोविकारनुत् ॥ ३५॥ तीक्ष्णं क्षारे किलासे च नागमूत्रं प्रयोजयेत् ॥३६ त्वात् लोके वेदे च धेनुमूत्रमेव गृह्यते न तु वलीवर्दस्य। अन्ये तु शुक्रसम्बन्धेन गुरुत्वात् पुङ्गवमूत्रं न ग्राह्यमित्याहुः । तन्न। शुक्रसम्बन्धस्य स्त्रीष्वपि प्रसक्तत्वात्। अपरे तु स्त्रीमूत्रं लघु- त्वात् ग्राह्यमित्याहुः । तदप्ययुक्तं येन सेकादौ वाते च मूत्रस्य गौरवमप्युपयुक्तं तस्माद्यथोक्तमेव श्रेय इति ॥ ३० ॥ सामान्यगुणमभिधाय तेषां विशिष्टगुणमाह गोमूत्रमिति । अविशिष्टमूत्रप्रयोगे गव्यमूत्रमेव ग्राह्यमित्यर्थः ॥ ३१ ॥ अविशुद्धिर्वमनादीनाम् ॥ ३२ ॥ चेतोविकार उन्मादापस्मारौ ॥ ३५ ॥