भारतकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 133, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 133

द्रव्यगुणाः। १२५ यथाप्रकृतिनिर्देश्यो व्यञ्जनेषु गुणान्वयः ॥३२॥ कफघ्नो दीपनो हृद्यः शुद्धानां व्रणिनामपि । ज्ञेयः पथ्यतमश्चापि मुद्गयूषः कृताकृतः ॥ ३३ ॥ स तु दाड़िममृद्वीकायुक्तः स्याद्रागषाड़वः । रुचिविष्णुल्लघुपाकश्च दोषाणाञ्चाविरोधकृत् ॥३४॥ मसूरमुद्गगोधूमकुलत्यलवगैः कृतः । कफपित्ताविरोधी स्याद् वातव्याधौ च शस्यते॥३५ मृद्वीकादाड़िमैर्युक्तः स चाप्युक्तोऽनिलार्दिते । रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते ॥३६॥ पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ । पित्तघ्नौ दीपनौ हृद्यौ क्रिमिकुष्ठज्वरापहौ॥३७ अनुक्तव्यञ्जनगुणज्ञानार्थमाह यथेति ॥ ३२ ॥ यूषेषु प्रधानत्वात् मुद्गयूषगुणमाह कफघ्न इति। कृताकृत इति लवणादिसंयुतः कृत इत्युच्यते । तद्रहितस्तु अकृत इति । उक्तं हि सुश्रुते । 'अस्नेहलवणं सर्वमकृतं कटुकैर्विना । विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम् ॥ ३३ ॥' अस्यैव यूषस्य संयोगविशेषेण नामान्तरमाह स इति ॥३४॥ मसूरादिपञ्चकयूषगुणमाह मसूरेत्यादि ॥ ३५ ॥ अस्यैव मृद्वीकादियोगेन गुणमाह मृद्वीकेत्यादि ॥ ३६ ॥ अत्र यूषस्य सूपयोनित्वाद् मुद्गादिकं त्रिगुणमिच्छन्ति द्विव- चनोपादानात् यूषद्वयं ज्ञेयम् ॥ ३७ ॥