द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 134, कुल 176 में से
संदर्भ में पढ़ें१२६ द्रव्यगुणः। हन्ति मूलकयूषस्तु कफमेदोगलामयान् । श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ॥ ३८॥ मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः । यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः ॥३६॥ सर्वधान्यकृतस्तद्वद् बृंहणः प्राणवर्धनः ॥ ४० ॥ खड़काम्बलिकौ हृद्यौ छर्दिवातकफे हितौ ॥४१॥ बल्यः कफानिलौ हन्ति दाड़िमाम्लोऽग्निदीपनः४२ मूलकयूष इति मूलकशुण्ठकयूषः। चन्द्रिकाकारस्तु बाल- मूलयूष इत्याह । जेज्जड़स्तु यद्यपि बालमूलकं त्रिदोषघ्नं तथापि तस्य यूषकरणे श्रुतिर्नास्तीति अयमपि मुद्गादिसहितो ज्ञेय इत्याह ॥ ३८ ॥ सर्वधान्यकृत इति सर्वशमीधान्यकृतः। शूकधान्यकुधान्य- योस्तु अयूषयोनित्वादिह न ग्रहणम् ॥ ४० ॥ खड़काम्बलिकयूषविशेषयोर्गुणमाह खडेति । अत्र खड़ो द्विविधः । सतक्रशमीधान्य एकः । सतक्रशाकश्चापरः । तत्राद्यः ससूप्यधान्यान् सस्नेहान् साम्लान् सांग्राहिकान् खड़ानित्युक्त- लक्षणः । सतक्रशाकस्तु । सतक्रं कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः। सुपक्वः खड़यूषोऽयमयं काम्बलिकोऽपरः । दध्यम्ललवणस्नेहतिलमाषसमन्वितः ॥ इति ॥ ४१ ॥ तत्राम्लसिद्धः काम्बलिक इति । अम्लानां बहुत्वात् येन येनाम्लेन यूषो यं यं गुणं करोति तं तं दर्शयन्नाह बल्य इति ॥ ४२ ॥