द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 135, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणाः। १२७ धान्याम्लो दीपनो हृद्यः पित्तकृद्वातनाशनः ॥४३॥ दध्यम्लः श्लेष्मलो बल्यः स्निग्धो वातहरो गुरुः ॥४४ तक्राम्लः पित्तकृद्धृद्यो विषरक्तप्रदूषणः ॥ ४५ ॥ अथ गोरसधान्याम्लफलाम्लैरन्वितञ्च यत् । यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसम् ॥ ४६ ॥ तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् । सिण्डाकी च गुरूणि स्युः कफपित्तहराणि च ॥४७ रागषाड़वयोगास्तु छर्दिमूर्च्छातृषापहाः । दाड़िमेनाम्लोक्रियते यो यूषः स दाड़िमाम्लः । एवं दध्यम्ल- धान्याम्लादिकञ्च व्याख्येयम् ॥ ४५ ॥ उक्तयोर्यूषरसयोरम्लान्तरसंयोगेन तथा संस्कृतासंस्कृतयो- रपि गुरुलाघवं दर्शयन्नाह अथेति । अत्र रसमिति नपुंसक- निर्देशात् सामान्येन यूषरसयोरुभयोरपि ग्रहणम् । यथोत्तरं लघ्विति । तेन गोरसाम्लापेक्षया धान्याम्लान्वितो रसो यूषो वा लघुर्भवतीत्यादि ज्ञेयम् । तथा संस्कृतापेक्षया असंस्कृतो लघु- रित्यर्थः । संस्कृतासंस्कृतं कृताकृतमित्यर्थः ॥ ४६ ॥ कृतान्नप्रसङ्गेन शुष्कशाकविशेषाणां कृतान्नानां गुणमाह तिलेत्यादि । पिष्टतिलपिण्याकविकृतिकृतव्यञ्जनानि तिल- पिण्याकविकृतिशब्देनोच्यन्ते । तथा शुष्कशाकं विरूढकमपि व्यञ्जनविशेषो देशान्तरप्रसिद्धः । सिण्डाकी च तीरभूमौ प्रसिद्धा ॥ ४७ ॥ रागषाड़वगुणमाह रागेत्यादि । तत्र रागः । सितारुचकसिन्धूत्थैः सहक्षाम्लपरूषकैः । जम्बूफलरसैर्युक्तो रागो राजिकया कृतः ॥