द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 138, कुल 176 में से
संदर्भ में पढ़ें१३० द्रव्यगुणः । शक्तूनामाशु जीर्य्येत मृदुत्वादवलेहिका ॥५७॥ इति कृतान्नवर्गः । ——— वक्ष्याम्यतः परं भक्ष्यान् रसवीर्य्यविपाकतः ॥१॥ पृथुका गुरवः स्निग्धाः कफविष्टम्भकारकाः । बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्चसः ॥२॥ लाजाश्छर्द्यतिसारघ्नाः स्नेहमेदःकफच्छिदः ॥३॥ धानोल्बम्बास्तु लघवः कफमेदोविशोषणाः ॥४॥ शक्तवो वातला रूक्षा बद्धवर्चस एव च ॥ ५ ॥ भक्ष्याः क्षीरकृता बल्या वृष्या हृद्याः सुगन्धिनः । शक्तुकृतमन्थप्रसङ्गेन शक्तुपिण्डीशक्त्ववलेहिकयोर्गुणमाह। गुर्वीति । खरा इति कठिना ॥ ५७ ॥ इति कृतान्नवर्गः । ——— भक्ष्याणामपि पृथुकादीनां शूकशमीधान्यसंभवत्वात् । कृतान्नवर्गानन्तरं भक्ष्यवर्ग उच्यते । पृथुका इति चिपिटाः । सक्षीरभावादिति सक्षीरधान्यकृतत्वात् ॥ २ ॥ धाना भृष्टयवाः उल्बम्बा होल्लाका अत्र मुद्गकलायादिशिम्बा अग्निपक्वा होल्लाका इति डल्हणः ॥ ४ ॥ धानाप्रसङ्गेन यवशक्तुगुणमाह शक्तूनामिति । शक्तूनां रूक्ष- त्वेऽपि वातलत्वाभिधानं तक्रस्य रूक्षस्यापि वातहारित्वदर्शनात् ॥ ५ ॥