द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 139, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणाः। १३१ अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः ॥ ६॥ घृतपूराः प्राणकरा हृद्याः श्लेष्मविवर्द्धनाः । वातपित्तहरा वृष्या गुरवो मांसशुक्रलाः ॥ ७ ॥ गौड़िका बृंहणा वृष्या गुरवश्चानिलापहाः । अदाहिनः पित्तसहाः शुक्रलाः कफवर्द्धनाः ॥८॥ मधुशीर्षकसंयावाः पूपा ये ते विशेषतः । गुरवो बृंहणाश्चैव मोदकास्तु सुदुर्ज्जराः ॥ ६ ॥ भक्ष्याणां योनिविशेषेण गुणविशेषं दर्शयन्नाह भक्ष्या इति । गोधूमपिष्टविकृतोः क्षीरेणालोद्य ये क्रियन्ते ते क्षीरभक्ष्याः । दीपनत्वं पुनरेषां स्ववर्गापेक्षया वातोपहताग्नेः संस्कारप्रभावाद्वा ॥ ६ ॥ घृतपूरस्य गुणमाह घृतपूरा इति। घृतपूरस्य लक्षणं यथा । मर्दिता समिता क्षीरनारिकेलसितादिभिः । अवगाह्य घृते पक्वा घृतपूरोऽयमुच्यते ॥ समिता गोधूमचूर्णम् ॥ ७ ॥ गौड़िका इति । गोधूमपिष्टवेष्टना गुड़प्रधानोदरा गौड़िका उच्यन्ते । अदाहिन इति ईषद्विदाहिनः । पित्तसहा इति पित्तं न कोपयन्तीत्यर्थः ॥ ८ ॥ मधुशीर्षकाः समितावेष्टनाः । पाकाद्घनीभूतमधुना कृतो- दरा मधुशीर्षका उच्यन्ते । संयावाः पुनः समितामम्बुदुग्धेन मर्दयित्वा सुशोभनाम् । पचेद्घृतोत्तरे खण्डे क्षिपेद्भाण्डे नवे च तत् । संयावोऽसौ युतश्चूर्णैस्त्वगेलामरिचार्द्रकैः ॥ मोदकाः प्रसिद्धाः ॥ ९ ॥