द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 140, कुल 176 में से
संदर्भ में पढ़ें१९२ द्रव्यगुणः। षट्टकः प्रागरुचिकृद् गुरुः स्वर्य्योऽनिलापहः ॥ १०॥ विष्यन्दः स्निग्धमधुरो बल्यो वातापहो गुरुः ॥११ बृंहणा वातपित्तघ्ना बल्या भक्ष्यास्तु सामिताः॥१२ हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः ॥१३॥ मुद्गादिवेशवाराणां पूर्णा विष्टम्भिनो मताः ॥१४ षट्टकगुणमाह षट्टक इति। षट्टकानां बहुत्वेऽप्युदाहरणार्थ- मेको लिख्यते । लवङ्गव्योषखण्डैस्तु दधि निर्मथ्य गालितम् । दाडिमीबीजसंयुक्तं चन्द्रचूर्णावचूर्णितम् । षट्टकस्तु प्रमोदाख्यो नलादिभिरुदाहृतम् ॥ १० ॥ विष्यन्दस्तु । आमगोधूमचूर्णन्तु सर्पिः क्षीरसितान्वितम् । नातिसान्द्रो नातितनुर्विष्यन्दो नामपाकतः ॥ इति । अन्ये तु घृतभृष्टतण्डुलान् विष्यन्दशब्देनाहुः ॥११॥ समिताकृतभक्ष्याणां सामान्यगुणमाह बृंहणा इति ॥ समिता गोधूमचूर्णम् । तत्कृताः सामिताः ॥ १२ ॥ इदानीं समिताकृतभक्ष्यविशेषगुणमाह हृद्य इति । अत्रापि समिता इत्यनुवर्त्तते । फेनकलक्षणं यथा । विमर्द्य विमलां शुक्लां समितां नातिशर्कराम् । संवेष्टनाय गर्भार्थं खरपाकं घृते पचेत् । फेनकं फेनसङ्काशं सम्पूर्णशशिसन्निभम् ॥ इति । अत्र गर्भार्थमपि समितैव घृते पक्तव्या ॥ १३ ॥ समिताकृतभक्ष्याणामिव मुद्गादिकृतगर्भाणां गुणमाह मुद्गे- त्यादि । अत्र वेशवारशब्देन मुद्गादीनां स्विन्नपिष्टः कल्क-