द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 146, कुल 176 में से
संदर्भ में पढ़ें१३८ द्रव्यगुणः। भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति । भुक्त्वोपविशतस्तुन्दं शयानस्य वपुर्भवेत् ॥ आयुश्चङ्क्रममाणस्य मृत्युर्धावति धावतः । ताम्बूलमुपसेवेत कर्पूराद्यधिवासितम् ॥ १४ ॥ ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम् । विषमूर्च्छामदार्त्तानामपथ्यं शोषिणामपि ॥१५॥ अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति । तद्द्द्रवैर्भिन्नसङ्घातं स्नेहेन मृदुतां गतम् ॥ समानेनावधूतोऽग्निरुदीर्य्यः पवनेन तु । काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये ॥१६॥ एवं रसमलायान्नमाशयस्थमधःस्थितः । पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम्॥१७॥ भोजनान्तरीयं विधिमाह भुक्तेति ॥ १४ ॥ इदानीमाहारस्याग्निना पाको यथा भवति यथा च पच्यमा- नमन्नं देहधात्वादिरूपतामापद्यते तदाह अन्नमिति । आदान- माहारनयनं कर्म्म यस्य स तथा । प्रकर्षतीति नयति । द्रवैरिति पानीयादिभिः । भिन्नसङ्घातम् अवयवशैथिल्यमापन्नम् । अवधूत इत्युद्दोपितः । समानेन इत्यनन्तरमविकृतेनेति शेषः । विकृतस्य वायोरग्निवैषम्यकरत्वात् । काले इति बुभुक्षाकाले । सममिति मात्राप्रकृत्यादिभिरुचितम् । सम्यगिति निर्विकारम् ॥१६॥ रसमलायेति । रसार्थं मलार्थञ्च पचतीत्यर्थः । आशयस्थ- मित्यामाशयस्थम् । अधःस्थित इत्यनेन वहिरग्नेर्यथा ऊर्द्ध्वज्व-