द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 145, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । १३७ तानि दक्षिणापार्श्वे तु भुञ्जानस्योपकल्पयेत् । प्रद्रवान् रसयूषादीन् सव्ये पार्श्वे प्रदापयेत् ॥ सर्वांन् गुड़विकारांश्च रागषाडवषट्कान् । पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ॥ १० एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् । भोक्तारं विजने रम्ये निःसम्पाते तु भोजयेत् ॥ ११ पूर्वं मधुरमश्नीयात् मध्येऽम्ललवणौ रसौ । अन्ते शेषान् रसान् वैद्यो भोजनेष्ववचारयेत् ॥ १२ ॥ अन्नेन कुक्षे र्द्वावंशौ पानेनैकं प्रपूरयेत् । आश्रयं पवनादीनां चतुर्थमवशेषयेत् ॥ १३ ॥ भुक्त्वा पादशतं गत्वा वामपार्श्वेन संविशेत् । शब्दान् रूपरसान् गन्धान् स्पर्शांश्च मनसः प्रियान् । आधारविशेषमभिधाय देशविशेषेण आहारविधिमाह पुर- स्तादिति । पुरस्तादग्रत इत्यर्थः । न केवलं पुरस्तात् द्वयोरपि च मध्यत इति द्वयोर्मध्ये एकस्मिन् पार्श्वे दद्यात् । एतेन सर्वत्र दातव्यमिति डल्लनो व्याचष्टे ॥ १० ॥ निःसम्पाते तु निर्वाते ॥ ११ ॥ इदानीं भोजनस्यानुपूर्वीमाह पूर्वमिति । पूर्वं मधुरमिति वातजयार्थम् । मध्येऽम्ललवणाविति मध्यस्थिताग्न्युत्तेजना- र्थम् । शेषानिति कटुतिक्तकषायान् तेन पश्चादूर्द्धं श्लेष्मजयार्थं देयाः ॥ १२ ॥ इदानीं द्रवाद्रवरूपस्याहारस्य मात्रामाह अन्नेनेति ॥ १३ ॥