द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 144, कुल 176 में से
संदर्भ में पढ़ें१३६ द्रव्यगुणः । घृतं कार्ष्णायसे देयं पेया देया तु राजते । फलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु तु ॥ ४ ॥ परिशुष्कप्रदिग्धानि सौवर्णेष्पकल्पयेत् ॥ ५ ॥ प्रद्रवाणि रसांश्चैव राजतेषूपहारयेत् ॥ ६ ॥ कट्वराणि खडांश्चैव सर्वान् शैलेषु दापयेत् ॥ ७ ॥ दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः । पानीयं पालकं मद्यं मृन्मयेषु प्रदापयेत् ॥ ८ ॥ वज्रवैदूर्य्यपात्रेषु रागषाड़वषट्कान् ॥ ६ ॥ पुरस्ताद्विमले पात्रे सूपं दद्यात्तु पाचकः । फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च ॥ आप्तैरिति सूपकारविशेषणम् । रम्यं मनोहरम् । अविरु- द्धमिति संयोगादिभिरविरुद्धम् । निवेदयेत् उपढौकयेत् ॥ ३ ॥ किञ्चिद्द्रव्यमाधारप्रभावेण कार्मुकं भवतीत्यत आह । वै द- लेष्विति । वैशब्दः पादपूरणे । अन्ये तु वैदलं वंशादिविदलकृतं पात्रमाहुः ॥ ४ ॥ परिशुष्कप्रदिग्धयोरुक्तमेव लक्षणम् ॥ ५ ॥ प्रद्रवाणि मण्डानि ॥ ६ ॥ कट्वरं तक्रम् । अन्ये तु सौवीराम्लमथात्यम्लकाञ्जिकं कट्वरं विदुः । सस्नेहदधिजं तक्रमाहुरन्ये तु कट्वरम् ॥ शैलेष्विति पाषाणपात्रेषु ॥ ७ ॥ वज्रं हीरकं तस्य पात्रं न सम्भवतीति वज्रयुक्तं पात्रं वज्र- पात्रं ज्ञेयम् । अन्ये तु दद्याद् वैदूर्य्यपात्रेष्विति पठन्ति ॥ ६ ॥