द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 150, कुल 176 में से
संदर्भ में पढ़ेंअस्थ्यो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः॥२१ द्रक्तमित्यादिना रसेन रक्तपोषणमुच्यते इति विरोधः । नैवमेक एवायमाहाररसो द्विप्रस्थानः पोष्यपोषकभेदेन । तत्रान्नपाना- दुत्पन्नो रसः पोषकः रक्तादिवत् स्थायी यः स पोष्यः तस्यैव हृदवस्थानमुक्तम् । अतएव पोष्यस्थायिरसव्यवच्छेदार्थमाहारेति रसविशेषणमुक्तं चरकेण । यत्तु रसाद्रक्तमित्यादिवचनं तद्रस- त्वेनाभेदविवक्षया रसं परित्यज्य रक्तमेव पठितं न तु पोष्यस्य रसाख्यधातोरभावादिति । न चैवमष्टधातुकत्वं शरीरस्येति वाच्यम् । यतः स्थायिरसभागपोषकरसभागयोः स्थानभेदाग्नि- भेदाद्यभावादेकत्वमेवेति सप्तधातुकमेव शरीरमित्युच्यत इति । अत्र च रसाद्रक्ताद्युत्पादे केचिदिदं वदन्ति । यद्रसोऽग्नि- पच्यमानः सर्वात्मना रक्ततां याति रक्तञ्च मांसतामित्यादि पूर्व- पूर्वधातुपरिणामेन उत्तरोत्तरधातूत्पादो यथा सर्वात्मना क्षीरा- द्दधि भवति दध्नो नवनीतं नवनीताद्धृतं घृताच्च घृतमण्ड इत्येकः पक्षः । किं वा रस एव रक्तं प्रथमं प्लावयति तत्र रक्त- स्थानसम्बन्धात् रक्तसादृश्यं रक्तव्यपदेशञ्चानुभवति । रक्तञ्च रक्त- समानेन स्तोकेनांशेनास्रं पोषयति । ततो रक्तमाप्लाव्य मांस- माप्लावयति तत्रापि मांससमानेनांशेन मांसपोषणं करोति । मांससादृश्यं मांसशब्दाभिधेयतां चानुभवति । एवमुत्तरोत्तरधा- तून् रस एव प्लावयति । यथा केदारनिषिक्तं कुल्याजलं प्रत्यासन्नां केदारामाप्लावयतौति द्वितीयः पक्षः । एतदेवोक्तं हारीते । यद्रसः सप्ताहादर्वाक् परिवर्त्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशु- कालक्तरसप्रख्यश्चायं यथाक्रमं दिवसपरिवर्त्ताद्वर्णपरिवर्त्तमा- पद्यमानः पित्तोष्मोपरागाच्छोणितत्वमापद्यत इति । तथा सुश्रुतेऽपि तत्रैषां धातूनामित्यादिना तथा स खलु त्रीणि