द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 151, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणाः । १४३ त्रीणि इत्यादिना रसेनैव रक्तादिधातुपोषणमनेन न्यायेनोक्तम् । किं वा आहाररस उत्पन्नो भिन्नैरेव मार्गैः स्थायिरसरुधिरमां- सादीन् रसरुधिरादिसमानांशेन तर्पयति । तत्र यः प्रत्यासन्नो धातुस्तत्पोषको भागस्तच्छीघ्रं पुष्णाति । यस्तु विदूरधातुस्तस्य सूक्ष्मविदूरमार्गतया चिरेण पोषणं भवति । एवं भिन्नैरपि मार्गै- र्धातुपोषणं भवति तेन रक्तपोषणकालादुत्तरकालं मांसपोषको रसभागो मांसं पोषयति । तथा मांसपोषणकालादुत्तरकालं मेदःपोषको रसभागो मेदः पोषयतीत्यादि । तेन रसाद्रक्त- मित्यादिवचनस्यायमर्थो यद् यत् रसपुष्टिकालादुत्तरकालं रक्तं प्रवर्त्तते रक्तपुष्टिकालादुत्तरकालं मांसं प्रवर्त्तत इत्यादि । अस्मिंस्तु पक्षे विण्मूत्रमाहारमलः सारः प्रागीरितो रसः । स तु व्यानेन निक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ॥ इत्यादिवचनस्य मुख्यार्थमेव घटते । तेन यथा खले उप- चितानां कपोतानां भिन्नदिग्गामिनां स्वीयस्वीयमार्गेणैव गच्छतां गम्यदेशस्य प्रत्यासन्नत्वविप्रकृष्टत्वादिभेदेन शीघ्रं चिरेण गमनं भवति तद्वदिति क्षीरदधिन्यायकेदारीकुल्यान्यायः । खले कपोतन्यायात्त्रिधा धातुपोषणक्रमः । तत्र एतेषु पक्षेषु सर्वात्म- परिणामि त्रिचतुरोपवासेनैव देहस्य नौरसत्वं स्यात् । मासोप- वासाच्च शुक्रमयं शरीरं स्यादित्यपेक्षणीय एव प्रथमः पक्षः । केदारीकुल्यान्यायपक्षे तु रसाद्रक्तादिपोषणं मुख्यार्थतया भवति । यद्यपि रक्तादेर्मांसादिपोषणं तदपि रसादेव रक्तादिधर्मतया रक्तादिव्यपदेशभाजो भवन्तीति व्युत्पादितमेव । यत्तु रसस्य सर्वधातुपोषकत्वमुक्तं तदपि रक्तादिपोषकतया तथा हृदय- स्थायिरसस्य कृत्स्नदेहव्यापकत्या वोपपन्नम् । एवं चरकेऽप्यु- क्तम् ।