द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 152, कुल 176 में से
संदर्भ में पढ़ें१४४ द्रव्यगुणः । रसात् स्तन्यं तथा रक्तमसृजः कण्डराः शिराः । व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा । युगपत् सर्वतोऽजस्रं देहे विक्षिप्यते सदा ॥ इत्यादि । तदप्युक्तनायात् एवोपपन्नं यदपि मांसादिना समानेन मांसादेरेव पोषणम् । तदपि धात्वाप्लावनन्यायेन गच्छतापि रसेन तद्धातुसमानेनांशेन तद्धातुपोषणादुपपन्नम् । वृष्यन्तु प्रभावात् यथा खले कपोतन्यायेन विदूरमपि शुक्रं प्रभावात् शीघ्रं याति तथात्रापि शीघ्रमेव वृष्योत्पन्नो रसो रक्तादिधातून् शीघ्रमाप्लावयतीति सुघटम् । एवमनया दिशाप्यत्र दूषणमुद्धार्यम् । तेनायं पक्षस्तावत् साधुः । खले कपोतपक्षेऽपि यथा रसाद्रक्तमित्यादि गौणतया भवति तद्दर्शितमेव । यत्तु चरके विवृद्धमार्गत्वान्मांसादीन् प्रपद्यत इत्युक्तं तत् कृत्स्नदेह- चारिशोणिताभिप्रायेण न तु पोषकरक्ताभिप्रायेणेति व्यवस्था- प्यते । यत्तु एकैकस्मिन् धातौ त्रीणि त्रीणीत्यादिना धातौ अवस्थानकाल उक्तः । स पूर्वपूर्वरक्तादिधातुलङ्घनकालो विदू- रगामिरसस्येति व्यवस्थाप्यते । एवमनयोः पक्षयोर्महाजनपरि- गृहीतयोर्गतिरुदर्शिता स्वरसस्तु अस्माकं केदारीकुल्यान्याये । यत्तु अन्यैः खले कपोतन्यायस्वीकारेण चरके सन्ततज्वरस्य द्वादशाश्रयत्वं युक्तमित्याद्युक्तम् । तन्न बुद्ध्यामहे । येन सन्ततस्य द्वादशाश्रयत्वं दोषमहिम्ना कृत्स्नदेहव्यापकत्या । यथा धातु तथा मूत्रं पुरीषञ्चानिलादय इत्यादिनोक्तम् । दोषाणाञ्च कुपि- तानां सम्प्राप्तिविशेषात् किमगम्यमस्ति देहे येन यावद्रसमेव परं सर्वधात्वादिव्यापकं सर्वधातुदूषणेऽपेक्षन्त इति ॥ २१ ॥ सम्प्रति प्रसादजन्यतां धातूनामभिधाय उपधातूनामप्याह रसादिति । अत्रापि रसात् स्तन्यं प्रसादजमित्यादि योज्यम् ।