द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 153, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । १४५ मांसाद्वसास्त्वचः षट् च मेदसः स्नायुसम्भवः ॥२२॥ रक्तमिति स्त्रीणां रजःसंज्ञं रक्तमप्युपधातुरूपम् । रसादेव रक्तं प्रसादभागजन्यमित्यर्थः । उक्तञ्च सुश्रुते । रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रपद्यते । इति । एतच्च रजोरूपं रक्तरसजन्यमपि धातुशोणितवत् न शीघ्रं जायते किन्तु शुक्रवन्मासेनैव । तदुक्तं सुश्रुते । एवं मासेन रसः शुक्लीभवति स्त्रीणाञ्च आर्त्तवमिति । अन्ये तु घृतकुम्भो यथैवाग्निमाश्रितः प्रविलीयते । विसर्पत्यार्त्तवं पुंसां तथा स्त्रीणां समागमे ॥ इत्यत्र यथा आर्त्तवशब्देन शुक्रमुच्यते तथा स्त्रीणाञ्च आर्त्तवमित्यत्रापि आर्त्तवशब्दः शुक्र एव वर्त्तते न तु रजसि । रजो हि रसादृक्तवत् शीघ्रमेव जायते न तु मासेन इत्याहुः । तन्नेत्यन्ये । विसर्पत्यार्त्तवमित्यादावपि स्त्रीणामात्तं वं पुंसां समागमे सति विसर्पतीति योजनया आर्त्तवशब्दस्य रजोवच- नत्वेनाप्युपपत्तेः । वस्तुतस्तु । आर्त्तवस्य रक्तरूपतया यद्यपि मासादवार्ग्भवति तथापि तस्यार्त्तरूपता गर्भाशयप्राप्त्यैव भवति । गर्भाशयप्राप्तिस्तु मासेनैव भवतीति कृत्वा मासेनार्त्तवं भवतीति सुश्रुतेनोक्तम् । उक्तं हि विश्वामित्रेण सूक्ष्माः केशप्रतीकाशा वीजरक्तवहाः शिराः । गर्भाशयं पूरयन्ति मासाद्बोजाय कल्पते ॥ इति । तत्र वीजभूतरक्तं वीजरक्तमार्त्तवमित्यर्थः । असृजः कण्डरा इति स्थूलस्नायवः । मेदसः स्नायुसम्भव इत्यनेन तु मेदसःसूक्ष्मा स्नायुपोषकमिति ज्ञेयम् । चरके हि कण्डराशब्दः स्थूलस्नायुवाची । सुश्रुते च स्थूलशिरावाचीति ज्ञेयम् । एते च स्नायादयः शरीरधारका अपि उपधातुशब्देनैवोच्यन्ते । तत्तु १३