द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 154, कुल 176 में से
संदर्भ में पढ़ें१४६ द्रव्यगुणः । किट्टमन्नस्य विण्मूत्रं रसस्य तु कफोऽसृजः । पित्तं मांसस्य खमला मलः स्वेदस्तु मेदसः ॥ धातुशब्देन धातुशब्दप्रवृत्तेर्धारणपोषणनिमित्तत्वात् । तेन ये शरीरं धारयन्ति धातूंश्च पुष्णन्ति रसादयस्त एव मुख्यतया धातु- शब्दवाच्या न स्तन्यादयः ते हि शरीरं धारयन्त्येव न तु कि- ञ्चित् पुष्णन्ति । उक्तं हि भोजे । शिरास्नायूरजस्तन्यस्त्वचो गतिविवर्जिताः । धातुभ्यश्चोपजायन्ते तस्मात्ते उपधातवः ॥ इति । अत्र गतिविवर्जिता इत्यनेन धात्वन्तरपोषणाया गतिर्निषेध्यते । अतएव धातुभ्यश्चोपजायन्त एव न तु परं जन- यन्तीत्यर्थः । यत्तु किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणमित्यत्र धातुशब्देन दोषाणामपि ग्रहणम् । तद्गौणधातुशब्दप्रयोगाज्- ज्ञेयम् । उक्तं हि दोषा ह्यपि धातुसंज्ञां लभन्ते इति । शुक्र- स्याप्योजःपोषकतया धारणपोषणयोगोऽस्तीति धातुत्वम- खण्डितमेव । ओजस्तु यद्यपि न धातुषु नाप्युपधातुषु पठितं तथापि तत् सप्तधातुसाररूपतया सप्तधात्वन्तर्गतमेवेति ज्ञे- यम् । अतएव तस्याग्निरपि पृथङ्नोक्तः ॥ २२ ॥ प्रसादभागोत्पादनमभिधाय मलभागोत्पादनमाह किट्ट- मिति । रसस्य तु कफ इति रसात् स्वाग्निपच्यमानात् यः किट्टभाग इति मलभागः स कफः प्रसादजश्च रक्तं न तु रसो- त्पत्तिमात्र एव कफो जायत इति । एवं रक्तादिमलेऽपि ज्ञेयम् मांसस्य खमला इति कर्णनासास्यप्रजननादिस्रोतोमलाः । स्यात् किट्टं केशलोमास्थ्न इति । अत्र नखस्याप्यस्थिमलत्वं सु- श्रुतप्रामाण्यादुन्नेयम् । तत्र हि नखा अप्यस्थिमलत्वेनोक्ताः । अतएव बहुधा शीतपीतीये चरकेऽप्युक्तम् किट्टात् केशनखादयः