भारतकोश
संग्रह पर लौटें

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

द्रव्यगुणः । १४५ मांसाद्वसास्त्वचः षट् च मेदसः स्नायुसम्भवः ॥२२॥ रक्तमिति स्त्रीणां रजःसंज्ञं रक्तमप्युपधातुरूपम् । रसादेव रक्तं प्रसादभागजन्यमित्यर्थः । उक्तञ्च सुश्रुते । रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रपद्यते । इति । एतच्च रजोरूपं रक्तरसजन्यमपि धातुशोणितवत् न शीघ्रं जायते किन्तु शुक्रवन्मासेनैव । तदुक्तं सुश्रुते । एवं मासेन रसः शुक्लीभवति स्त्रीणाञ्च आर्त्तवमिति । अन्ये तु घृतकुम्भो यथैवाग्निमाश्रितः प्रविलीयते । विसर्पत्यार्त्तवं पुंसां तथा स्त्रीणां समागमे ॥ इत्यत्र यथा आर्त्तवशब्देन शुक्रमुच्यते तथा स्त्रीणाञ्च आर्त्तवमित्यत्रापि आर्त्तवशब्दः शुक्र एव वर्त्तते न तु रजसि । रजो हि रसादृक्तवत् शीघ्रमेव जायते न तु मासेन इत्याहुः । तन्नेत्यन्ये । विसर्पत्यार्त्तवमित्यादावपि स्त्रीणामात्तं वं पुंसां समागमे सति विसर्पतीति योजनया आर्त्तवशब्दस्य रजोवच- नत्वेनाप्युपपत्तेः । वस्तुतस्तु । आर्त्तवस्य रक्तरूपतया यद्यपि मासादवार्ग्भवति तथापि तस्यार्त्तरूपता गर्भाशयप्राप्त्यैव भवति । गर्भाशयप्राप्तिस्तु मासेनैव भवतीति कृत्वा मासेनार्त्तवं भवतीति सुश्रुतेनोक्तम् । उक्तं हि विश्वामित्रेण सूक्ष्माः केशप्रतीकाशा वीजरक्तवहाः शिराः । गर्भाशयं पूरयन्ति मासाद्बोजाय कल्पते ॥ इति । तत्र वीजभूतरक्तं वीजरक्तमार्त्तवमित्यर्थः । असृजः कण्डरा इति स्थूलस्नायवः । मेदसः स्नायुसम्भव इत्यनेन तु मेदसःसूक्ष्मा स्नायुपोषकमिति ज्ञेयम् । चरके हि कण्डराशब्दः स्थूलस्नायुवाची । सुश्रुते च स्थूलशिरावाचीति ज्ञेयम् । एते च स्नायादयः शरीरधारका अपि उपधातुशब्देनैवोच्यन्ते । तत्तु १३

१४६ द्रव्यगुणः । किट्टमन्नस्य विण्मूत्रं रसस्य तु कफोऽसृजः । पित्तं मांसस्य खमला मलः स्वेदस्तु मेदसः ॥ धातुशब्देन धातुशब्दप्रवृत्तेर्धारणपोषणनिमित्तत्वात् । तेन ये शरीरं धारयन्ति धातूंश्च पुष्णन्ति रसादयस्त एव मुख्यतया धातु- शब्दवाच्या न स्तन्यादयः ते हि शरीरं धारयन्त्येव न तु कि- ञ्चित् पुष्णन्ति । उक्तं हि भोजे । शिरास्नायूरजस्तन्यस्त्वचो गतिविवर्जिताः । धातुभ्यश्चोपजायन्ते तस्मात्ते उपधातवः ॥ इति । अत्र गतिविवर्जिता इत्यनेन धात्वन्तरपोषणाया गतिर्निषेध्यते । अतएव धातुभ्यश्चोपजायन्त एव न तु परं जन- यन्तीत्यर्थः । यत्तु किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणमित्यत्र धातुशब्देन दोषाणामपि ग्रहणम् । तद्गौणधातुशब्दप्रयोगाज्- ज्ञेयम् । उक्तं हि दोषा ह्यपि धातुसंज्ञां लभन्ते इति । शुक्र- स्याप्योजःपोषकतया धारणपोषणयोगोऽस्तीति धातुत्वम- खण्डितमेव । ओजस्तु यद्यपि न धातुषु नाप्युपधातुषु पठितं तथापि तत् सप्तधातुसाररूपतया सप्तधात्वन्तर्गतमेवेति ज्ञे- यम् । अतएव तस्याग्निरपि पृथङ्नोक्तः ॥ २२ ॥ प्रसादभागोत्पादनमभिधाय मलभागोत्पादनमाह किट्ट- मिति । रसस्य तु कफ इति रसात् स्वाग्निपच्यमानात् यः किट्टभाग इति मलभागः स कफः प्रसादजश्च रक्तं न तु रसो- त्पत्तिमात्र एव कफो जायत इति । एवं रक्तादिमलेऽपि ज्ञेयम् मांसस्य खमला इति कर्णनासास्यप्रजननादिस्रोतोमलाः । स्यात् किट्टं केशलोमास्थ्न इति । अत्र नखस्याप्यस्थिमलत्वं सु- श्रुतप्रामाण्यादुन्नेयम् । तत्र हि नखा अप्यस्थिमलत्वेनोक्ताः । अतएव बहुधा शीतपीतीये चरकेऽप्युक्तम् किट्टात् केशनखादयः

द्रव्यगुणः । १४७ स्यात्किट्टं केशलोमास्थ्नो मज्ज्ञः स्नेहोऽक्षिविट्त्व- चाम् ॥२३॥ प्रसादकिट्टधातूंनां पाकादेवं विधर्चुतः ॥ २४ ॥ परस्परोपसंस्तम्भा धातुस्नेहपरंपरा ॥ २५ ॥ पुष्णन्ति इति । यत्तु शरीरे अस्थिगणनायां विंशतिर्नखा गणिताः तदस्थिसाम्येनोक्तम् । किं वा जीवन्नखस्यास्थित्वं मृत- नखस्य तु मलत्वं ज्ञेयम् । अत्र केचिदाकृष्टान्डकोषस्य पुंसः श्मश्रुणोऽभावात् श्मश्रूणि शुक्रमलतया वदन्ति । तन्न तन्त्रे ऽनभिधानात् श्मश्रुहीनस्यापि शुक्रदर्शनाच्च । मज्ज्ञः स्नेहो- ऽक्षिविट्त्वचामिति स्नेहस्त्वचामित्यन्वयः । अक्षिविडिति दूषिका । अत्र मलस्थूलानुभागविशेषेण त्रिविधं परिणामं वर्ण- यन्ति केचित् । यथा रसादग्निपक्कान्मलं कफः स्थूलभागो रसः सूक्ष्मभागश्च रक्तम् । तथा रक्तादग्निपच्यमानात् मलं पित्तं स्थूलभागः शोणितं सूक्ष्मभागस्तु मांसमित्यादि उप- संहरति ॥ २३ ॥ धातूनां पाकादेवमुक्तक्रमेण प्रसादकिट्टे द्विधा ऋचुतो भवत इत्यर्थः ॥ २४ ॥ इदानीं यथा पोषकेण रसादिना पोष्यस्य रक्तादेराप्यायनं क्रियते तथा पोष्येणापि रक्तादिना पोषकस्यापि रसादेरा- प्यायनं क्रियत इति परस्परधातूनामुपकारकत्वमाह । पर- स्परमुपस्तम्भः सन्तर्पकत्वं यस्याः सा तथा । धातुस्नेहपरम्परा धातुरूपसारपरम्परा । अतएवातिव्यवायेन पोष्यस्य शुक्रस्य क्षयादपि पूर्वपूर्वपोषकधातुक्षयो य उक्तस्तन्त्रान्तरे स उपपद्यत

१४८ द्रव्यगुणः। अन्नस्य पक्ता सर्वेषां पक्तॄणामधिको मतः । तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकः ॥२६॥ तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनैर्हितैः । पालयेत् प्रयतस्तस्य स्थितौ ह्यायुर्बलस्थितिः ॥२७॥ यो हि भुङ्क्ते विधिं मुक्त्वा ग्रहणीदोषजान् गदान् । स लौल्याल्लभते शीघ्रं तस्मान्नोल्लङ्घयेद्विधिम्॥२८॥ प्राणाः प्राणभृतामन्नमन्नं लोकोऽभिधावति । वर्णप्रसादसौस्वर्यं जीवितं प्रतिभा सुखम् ॥ तुष्टिः पुष्टिर्बलं मेधा सर्वमन्ने प्रतिष्ठितम् । इति ज्ञेयम् । एवमुक्तमग्नीनां कर्मोपसंहरति । इति भौतिक- धात्वनुरूपपक्तॄणां कर्म भाषितम् ॥ २५ ॥ भौतिकाः पञ्च धात्वग्नयः सप्त अन्नस्य पक्तैकस्त्रयोदश । एषु एव जाठराग्नेः प्राधान्यमाह अन्नस्येति । हि यस्मात्ते द्वादशा- ग्नयस्तस्य जाठराग्नेर्वृद्ध्या वृद्ध्यात्मका वृद्धिरूपाः । तथा क्षयेण च क्षयात्मका हि यस्मात्ते द्वादशाग्नयः क्षीणस्वरूपा भवन्ति। तस्माज्जाठरानलान्वयव्यतिरेकोऽनुविधायित्वात्तन्मूला इत्यर्थः ॥ २६ ॥ तस्मात्तं पालयेदिति योज्यम् । विधिवद्युक्तैरिति यथा- विध्युपयुक्तैः । विधिश्च दर्शित एव ॥ २७ ॥ उक्तविधिविपर्य्यये दोषमाह यो हीत्यादि ॥ २८ ॥ इदानीं यथाविध्युपयुक्तस्यान्नस्य गुणमाह प्राणा इत्यादि । अभिधावति प्रार्थयते । किं वा अन्नमित्यनन्तरमुद्दिश्येति शेषः । प्रतिभा प्रज्ञा । लौकिकमिति अपरीक्षकलोकभवम् अपरीक्षका

द्रव्यगुणः। १४८ लौकिकं कर्म यद्वृत्तौ स्वर्गत्तौ यच्च वैदिकम् ॥ कर्मापवर्गे यच्चोक्तं तच्चाप्यन्ने प्रतिष्ठितम् ॥२६॥ शीतोष्णतोयासवमद्ययूष- फलाम्लधान्याम्लपयोरसानाम् । यस्यानुपानन्तु हितं भवेद्य- त्तस्मै प्रदेयं न्विह मात्रया तत् ॥ १ ॥ व्याधिश्च कालश्च विभाव्य धीरै- र्द्रव्याणि भोज्यानि च तानि तानि ॥२॥ एव हि वर्त्तमानमात्रे प्रवर्त्तन्ते । परीक्षकस्तु जन्मान्तरोप- कारिष्वेव प्रवर्त्तन्ते प्रायः कर्म यद्वृत्ताविति वर्त्तमाने साध्ये यत् कर्म कृष्यादि स्वर्गताविति स्वर्गमभीप्सुः करोमीति यज्ञादि । अपवर्ग इति मोक्षे । एताय निमित्तमव्ययः । यच्चोक्तमिति । मोक्षशास्त्रे सत्यब्रह्मचर्य्यादि । अन्ने प्रतिष्ठितमिति । अन्ननिब- न्धनदेहस्थित्यभावेन सर्व्वारम्भाभावात् । तस्माद्यथोक्तविधिना अन्नं सेव्यमित्यर्थः ॥ २६ ॥ इति आहारविधिः । आहारानन्तरं हि सुखपाकार्थमनुपानं प्रयुज्यत इत्यनन्तर- मनुपानमाह । तत्र सर्व्वाण्येवानुपानद्रव्याणि उत्तरत्र विवरीतुं संक्षेपेण सूत्रयन्नाह शीतेत्यादि । फलाम्लं वीजपूरादि । धा- न्याम्लं काञ्जिकादि । पयःशब्दस्तद्विकारयोर्वक्ष्यमाणयोर्मस्तु- तक्रयोरपि ग्राहकः । इक्षुरसस्तु रसशब्देन गृह्यते ॥ १ ॥

१५० द्रव्यगुणः। स्निग्धोष्णं मारुते शस्तं पित्ते मधुरशीतलम् । कफेऽनुपानं रूक्षोष्णं क्षये मांसरसं पयः ॥ ३ ॥ उष्णोदकानुपानन्तु स्नेहानामथ शस्यते । ऋते भल्लातकस्नेहात्तत्र तोयं सुशीतलम् ॥ ४ ॥ अनुपानं वदन्त्येके तैले यूषाम्लकाञ्जिकम् ॥ ५ ॥ शीतोष्णतोयादिषु मध्ये यदनुपानं यस्मै हितं भवेत्तस्मै तदेव देयम् । कथमित्याह । व्याधिं ज्वरादिकं तथा व्याधि- शब्देन व्याधिहेतवो वातादयोऽपि गृह्यन्ते उपचारात् । एतन्न सङ्गतमित्यन्ये । युगपद्वृत्तिद्वयापत्तिप्रसङ्गात् । कालमार्त्तव- मावस्थिकञ्च । द्रव्याणि द्रवप्रधानानि स्नेहादीनि । भोज्यानि शूकधान्यादीनि । विभाव्येति विशेषेण ज्ञात्वा न सामान्यरूपेण अवधार्य्य इत्यर्थः ॥ २ ॥ सामान्येनानुपानमभिधाय विशेषेणानुपानेऽभिधातव्ये प्रथमं दोषविशेषेऽनुपानविशेषमाह स्निग्धोष्णमित्यादि ॥ ३ ॥ दोषभेदेनानुपानभेदमभिधाय द्रव्यभेदेनानुपानभेदे वक्तव्ये शीतोष्णतोययोः प्रथमं सूत्रितत्वात् प्रथमं तयोर्विषयमाह उष्णोदकेत्यादि ॥ ऋते भल्लातकस्नेहादिति उष्णोदकानुपान- स्यापवादः । तत्र तोयं सुशीतलमित्यस्य स्थाने स्नेहात्तौवरि- कात्तथेति केचित् पठन्ति । तत्र पत्रैस्तु केशराकारैः फलैः सर्षपसन्निभैः । वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः । तेन तुवरकफलोद्भवः स्नेहस्तौवरक इत्यर्थः । तेन भल्ला- तकस्नेहे तौवरकस्नेहेऽप्युष्णजलस्य निषेधाच्छीतजलानुपानमर्था- ल्लब्धमेव ॥ ४ ॥

द्रव्यगुणः । १५१ शीतोदकं माक्षिकस्य पिष्टान्नस्य च सर्वशः । दधिपायसमद्यार्ते विषदुष्टे तथैव च ॥ ६ ॥ केचित् पिष्टमयस्याहुरनुपानं सुखोदकम् ॥ ७ ॥ पयोमांसरसो वापि शालिमुद्गादिभोजिनाम् । युद्धाध्वातपसन्तापविषमद्यरुजासु च ॥ ८ ॥ मांसादेरनुपानन्तु धान्याम्लं दधि मस्तु वा ॥६॥ अल्पाग्नीनामनिद्राणां तन्द्राशोकभयक्लमैः । मद्यमांसोचितानान्तु मद्यमेवानुशस्यते ॥ अमद्यपानामुदकं फलाम्लं वा प्रयोजयेत् ॥ १० ॥ स्नेहप्रसङ्गेनैकीयं मतं तैलानुपाने दर्शयन्नाह अनुपान- मित्यादि । अत्र यूषाम्लकाञ्जिकमिति उष्णकाले यूषः । शीत- काले काञ्जिकमित्याहुः ॥ ५ ॥ पिष्टान्नेविदाहरक्षार्थं पायसेऽपि गुरुत्वाद्विदाहरक्षार्थं शीत- जलानुपानम् ॥ ६ ॥ सुखोदकमिति कटूष्णमुदकम् ॥ ७ ॥ अत्र यदाहारगुणैः पानं विपरीतं तदिष्यत इति वचनात् शालिषु पयसः समानगुणस्यानुपानत्वं न मन्यमानाः केचित् पयःस्थाने मस्तु पठन्ति । तन्न मनोरमम् । यतः शालिषु पयोऽनुपानं शालिप्रभावादेव वचनादुन्नीयते । नहि सर्वत्रानु- पानि कारणवर्णनं सुगमम् । ८ ॥ धान्याम्लन्तु काञ्जिकम् । दधिमस्तु यद्यपि शीतोष्णतोया- सवमद्य इत्यादि वचने पूर्वं सूचितं तथापि तत्र पयोग्रहणस्य गोरसोपलक्षणत्वात् लभ्यते इति प्रागेवोक्तम् ॥ ६ ॥

१५२ द्रव्यगुणः । उपवासाध्वभाष्यस्त्रीमारुतातपकर्मभिः । क्लान्तानामनुपानार्थं पयः पथ्यं यथामृतम् ॥ सुरा कृशानां स्थूलानामनुशस्तं मधूदकम् ॥११॥ निरामयानां चित्रन्तु भक्तमध्ये प्रकीर्त्तितम् ॥१२॥ क्षीरमिचुरसश्चेति हितं शोणितपित्तिनः ॥१३॥ अर्कशेलुशिरीषाणामासवस्तु विषार्त्तिषु ॥ १४ ॥ यदाहारगुणैः पानं विपरीतं तदिष्यते । तच्चानुपानं धातूनां दृष्टं यन्न विरोधि च ॥१५॥ फलाम्लं दाड़िमादि ॥ १० ॥ कृशानां सुरा अनुशस्ता । स्थूलानान्तु मधूदकमनुशस्त- मिति सम्बन्धः । मधुमिश्रितमुदकं मधूदकम् ॥ ११ ॥ सुस्थमधिकृत्यानुपानमाह निरामयाणामित्यादि । चित्र- मिति नानाप्रकारं येन नानाप्रकारा दोषधातुमलाः स्वमान- मनुवर्त्तन्ते । सामयानान्तु अनुपानं वातादिदोषापेक्षयैव देयम् । तच्च स्निग्धोष्णं मारुते शस्तं इत्यादिना प्रागेवोक्तम् ॥ १२ ॥ शीतोष्णतोयेत्यादिसूत्रे इक्षुरसस्यापि रसशब्देनाभिधा- नात् । इक्षुरसोऽपि अनुपाने सूत्रित इति तदभिधानम् नोत्सूत्रम् ॥ १३ ॥ विषार्त्तिषु देयमनुपानमाह अर्केत्यादि ॥ १४ ॥ अनुक्तानुपानज्ञानार्थमाह यदाहारेत्यादि ॥ आहारगुणै- रिति शीतस्नेहमधुरादिभिः । विपरीतमिति विपरीतगुणमनु- पेयम् । एवञ्च दध्नोऽम्लस्य मधुरं क्षीरं तथा पायसस्य च । काञ्जिकाद्यनुपानं स्यादित्यत आह । धातूनां यन्न विरोधि

द्रव्यगुणः । १५३ दोषवद्गुरु वा भुक्तमतिमात्रमथापि वा । यथोक्तेनानुपानेन सुखमन्नं प्रजीर्य्यति ॥ १६ ॥ रोचनं वृंहणं वृष्यं दोषघ्नं वातभेदनम् । तर्पणं मार्द्दवकरं श्रमक्लमहरं सुखम् ॥ दीपनं दोषशमनं पिपासाच्छेदनं परम् । वल्यं वलकरं सम्यगनुपानं सदोच्यते ॥ १७ ॥ तदादाै कर्षयेत्पीतं स्थापयेन्मध्यसेवितम् । पश्चात्पीतं वृंहयति तस्मादौच्य प्रयोजयेत् ॥ १८ ॥ चेति । एवं दध्यादिषु अम्लेषु क्षीराद्यनुपीयमानं धातुविरोध- मावहतीति न तदनुपानमित्यर्थः । एवमन्यदपि विरुद्धमुन्ने- यम् ॥ १५ ॥ अनुपानगुणमाह दोषवदित्यादि । दोषवदिति वातादि- दोषकरम् । गुर्विति स्वभावगुरु लड्डुकपिटकादि । मात्रा- गुरोस्तु अतिमात्रपदेन निर्दिष्टत्वात् ॥ १६ ॥ पुनः प्रशस्तं गुणमाह रोचनमित्यादि ॥ १७ ॥ अनुपानस्य भोजनादिमध्यान्तविभागेन गुणविशेषमाह- तदादावित्यादि । आदौ पीतं वायुना अधोगतेन रूक्षी- कृतम् आहाराकाङ्क्षाविरोधकतया च देहं कर्षयति । एतच्च यद्यपि कस्यचित् पश्चान्न भवतीत्यतोऽनुपानार्थो न घटते अनु- शब्दस्य पश्चादर्थत्वात् तथापि पानस्य सर्वकालिकत्वात् उप- न्यस्तम् । किं वा अनुशब्दो लक्षणार्थः । तेन भाविभोजनं तृष्णाञ्चानु लक्षीकृत्य पीयत इत्यनुपानमित्यर्थः । स्थापयेन्मध्य- सेवितमिति । भोजनमध्ये सेवितमनुपानं पित्तस्य स्नेहेन

१५४ द्रव्यगुणः । स्थिरतां गतिमक्लिन्नमन्नमद्रवपायिनाम् । भवत्याबाधजननमनुपानमतः पिबेत् ॥ १९ ॥ न पिबेत् श्वासकासार्त्तो रोगे चाप्यूर्ध्वजत्रुगे । क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः ॥ २० ॥ पीत्वाध्वभाष्याध्ययनस्वप्नगेयान्न शीलयेत् । प्रदूष्यामाशयं तद्धि तस्य कंठोरसि स्थितम् ॥ स्यन्दाग्निसादच्छर्द्यादीन् जनयेदामयान् बहून॥ २१ ॥ अनुपानं प्रयोक्तव्यं व्याधौ श्लेष्मभवे पलम् । पलद्वयन्त्वनिलजे पित्तजे तु पलत्रयम् ॥ २२ ॥ ——— युक्तं सत् शरीरं समं स्थापयति । पश्चात् पीतञ्च श्लेष्मप्रस- ङ्गात् स्निग्धतरं सद्बृंहयति । वीक्ष्य प्रयोजयेदिति कर्षणादि- कार्य्यमपेक्ष्य प्रयोजयेदित्यर्थः ॥ १८ ॥ अनुपानाभावे दोषमाह स्थिरतामित्यादि ॥ १९ ॥ विषयविशेषेऽनुपाननिषेधमाह न पिवेदित्यादि । अत्र केचिद्द्रवं विना जारणाभावात् नञश्च ईषदर्थत्वात् अल्पं पिबे- दित्यर्थं वदन्ति ॥ २० ॥ द्रवं पीत्वा यन्न कार्य्यं करणे वा यो दोषस्तमाह । कण्ठो- रसि स्थितमिति अध्वादिश्लोभितवातेनोर्ध्वं नीतत्वात् । स्यन्दः कफप्रसेकः ॥ २१ ॥ अनुपानमात्रामाह अनुपानमित्यादि ॥ २२ ॥ इति अनुपानविधिः।

द्रव्यगुणः। १५५ अत ऊर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम् । कर्मभिस्त्वनुमीयन्ते नानाद्रव्याश्रया गुणाः ॥१॥ ह्लादनः स्तम्भनः शीतो मूर्च्छाटट्क्केददाहजित् । उष्णस्तद्विपरीतः स्यात्पाचनश्च विशेषतः ॥ २ ॥ स्नेह्मार्दवकृत् स्निग्धो बलवर्णकरस्तथा । रूक्षस्तद्विपरीतः स्याल्लेखनः स्तम्भनः खरः ॥ ३ ॥ पिच्छिलः पीड़नो बल्यः सन्धानः श्लेष्मलो गुरुः॥४ विशदो विपरीतः स्यात् क्लेदावृषणरोपणः ॥५॥ दाहपाककरस्तीक्ष्णः स्त्रावणो मृदुरन्यथा ॥ ६ ॥ अनुपानादौ प्रतिपादिता ये गुणास्ते हेयोपादेयका- र्य्यकर्त्तृतयैव हेया उपादेया वा तेषाञ्च कार्य्यं कथं ज्ञातव्य- मिति जिज्ञासायां गुणानां कर्माभिधातुं प्रकरणान्तरमारभते । अत ऊर्ध्वमित्यादि । कर्मेति कार्य्यं कार्य्यावच्छिन्ना वा क्रिया । यद्यप्यत्रापि शीतपिच्छिलादयः प्रत्यक्षास्तथापि ते तत्कार्य्य- कर्त्तृतया अनुमेया एवेति कर्मभिस्त्वनुमीयन्त इत्युक्तम् । नाना च ते द्रव्याश्रयाश्चेति नानाद्रव्याश्रयाः ॥ १ ॥ ह्लादनः सुखकारक इत्यर्थः । स्तम्भनो रक्तातिप्रवृत्त्या- दीनाम् । शीत इति शीतगुणः । पाचनो व्रणस्य आमस्य ॥२॥ खर इति खरत्वं कार्कश्यं तत्कर इति । ३ ॥ पीड़न इति व्रणपीड़नः ॥ ४ ॥ क्लेदावृषण इति क्लेदहारकः ॥ ५ ॥ स्रावण इति व्रणनयनस्रावणः । मृदुरन्यथेति तीक्ष्णविप- रीतकर्मेत्यर्थः ॥ ६ ॥

१५६ द्रव्यगुणः । सादोपलेपबलकृत् गुरुस्तर्पणवृंहणः ॥ ७ ॥ लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा । दशाद्याः कर्मतः प्रोक्तास्तेषां कर्मविशेषणैः ॥ दशैवान्यान् प्रवक्ष्यामि द्रवादींस्तन्निबोध मे ॥ ८॥ द्रवः प्रक्लेदनः सान्द्रः स्थूलः स्याद् वृन्दकारकः॥६॥ श्लक्ष्णः पिच्छिलवज्ज्ञेयः कफलो विशदो यथा॥१०• सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः ॥११॥ दुर्गन्धो विपरीतोऽस्मात् हृल्लासारुचिकारकः॥१२॥ सादोऽग्निससादः ॥ ७ ॥ कर्म इति ल्यब्लोपे पञ्चमी । तेन कर्म पुरस्कृत्य प्रोक्त इत्यर्थः । तेषां गुणानां मध्ये विशिष्टैः कर्मभिरन्यान् दश प्रव- क्ष्यामोत्यर्थः ॥ ८ ॥ सान्द्र इति सान्द्रगुणः । वृन्दो मेलक उपचय इति यावत् तत्कारकः । केचित्तु द्रवः प्रक्लेदनो व्यापी शुष्कः स्याद् द्वन्द्वकारकः । इति पठन्ति । तत्र शुष्क इति शुष्कगुण इत्यर्थः ॥ ६ ॥ सुगन्धगुणमाह सुखानुबन्धीत्यादि । सुखानुबन्धी सुखज- नकः । सूक्ष्म इत्यवगाहकः । शोभनो गन्धः सुगन्धः ॥ ११ ॥ विपरीत इति दुःखानुबन्धी । तथा नैव पुरुषमवगाहते अनभिलषितत्वात् । सुगन्धवैपरीत्येनैवारुचौ लब्धायां पुनस्त- द्वचनं द्विविधारुचिज्ञापनार्थम् । द्विविधो हि अरोचकः । तत्रैकः अनन्नाभिलाषरूपः । द्वितीयस्तु सत्यपि अभिलाषे अव्यवहारा- सामर्थ्यरूपः ॥ १२ ॥

द्रव्यगुणः। १५७ सरोऽनुलोमनः प्रोक्तो मन्दो यात्राकरः स्मृतः ॥१३ व्यवायो चाखिलं देहं व्याप्य पाकाय कल्पते ॥१४ विकासी विकसन्नेवं धातुबन्धान् विमोचयेत् ॥१५ आशुकरी तथाशुत्वाद्धावत्यम्भसि तैलवत् ॥१६॥ सूक्ष्मस्तु सौक्ष्मात्सूक्ष्मेषु स्रोतःस्वनुसरः स्मृतः । गुणा विंशतिरित्युक्तं? गुणा विंशतिरित्‍येवं यथावत्परिकीर्त्तिताः ॥१७॥ अनुलोमन इति । विगुणवायुमलादेः प्रवर्त्तनः । यात्राकर इति स्थैर्य्याद् देहस्थिरकारकः ॥ १३ ॥ व्यवायो गुणः अपक्व एव मद्यविषवत् प्रथममखिलं देहं व्याप्नोति ततस्तत्रस्थ एव पाकं याति । येऽपि भावाय इति पठन्ति, तत्रापि भावाय शरीरस्थितये भवतीत्यर्थः । अन्ये तु भावाय कल्पत इत्यस्य स्थितये कल्पते नोर्द्धमधो वा याती- त्याहुः । अपरे तु भावशब्दमभिप्रायार्थमिच्छन्ति । तत्र नियत- द्रव्यप्रभावेणात्मशक्त्यनुरूपं तत्तद्द्रव्यं मद्यविषवत् विशिष्टाभिप्रा- याय कल्पत इत्यर्थमाचक्षते ॥ १४ ॥ विकसनं विकासो हिंसासहिता गतिः कसगतिसातनयोरि- त्यस्य रूपं सोऽस्यास्तीति विकासी विकसन्निति गच्छन् । धातुबन्धानिति धात्वन्तरमर्य्यादारूपावकाशात् रसादीन् धातु- बन्धान् विमोचयेदिति धात्ववस्थितान् दोषमलान् पृथक्क्रो- तीति ॥ १५ ॥ आशुकरी गुणः आशुत्वादिति शीघ्रगतित्वात् ॥ १६ ॥ सरविशेषो व्यवायो तीक्ष्णविशेषो विकासी तेन विंशति- गुणा इत्युपसंहारो युक्त एव । अन्ये तु संख्याधिक्यभिया व्यवा- यिविकासि गुणौ न पठन्ति तत्र व्यवायिविकासिनोः स्वतन्त्रे १४

१५८ द्रव्यगुणः १ दन्तकाष्ठं करञ्जादि रुचिदं दन्तशोधनम् ॥ १८॥ जिह्वा निर्लेखनं वक्त्रजिह्वावैरस्य जाड्यजित् । देवगोविप्रवृद्धानां गुरूणामपि पूजनम् ॥ आयुष्यं वृद्धिदं पुण्यमलक्ष्मीकविनाशनम् । मङ्गल्योपासनं शस्तं वृद्धिदं व्यसनापहम् ॥ पादप्रक्षालनं पादमलरोगश्रमापहम् । दृष्टिप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्धनम् ॥ नेत्रमञ्जनसंयोगात् भवेच्चामलतारकम् । लाघवं कर्मसामर्थ्यं स्थैर्यं क्लेशसहिष्णुता ॥ दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते । वातपित्तामयी बालो वृद्धोऽजीर्णी तु तां त्यजेत् ॥ मेदोहरः स्थैर्य्यकरो गौरवव्याधिनाशनः । अभ्यङ्गो मार्दवकरो वातश्लेष्मविनाशनः ॥ उद्वर्त्तनं स्थिरकरं कफमेदोविनाशनम् । स्नानं दीपनमायुष्यं वृष्यं स्वर्य्यं बलप्रदम् ॥ परतन्त्रे च पाठात् । अन्ये तु दशैवान्यान् प्रवक्ष्यामीत्यत्र दश चान्यानिति पठित्वा चकारस्यानुक्तसमुच्चयार्थत्वेनाधिकगुणद्वय- पाठं समर्थयन्ति । इति गुणकर्मनिर्देशः ॥ १७ ॥ इदानीं परिशेष्याद्दन्तकाष्ठादिगुणमाह दन्तकाष्ठमित्यादि । आदिशब्दात् करवीरादीनां ग्रहणम् । तदुक्तं करञ्जकरवीरार्कमालतीककुभाशनाः । शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः ॥ इति ॥ १८॥

द्रव्यगुणः । १५८ कण्डूमलकफस्वेदतन्द्रातड्दाहपाप्मजित् । उष्णाम्बुनाधः कायस्य परिषेको बलावहः ॥ तेनैव तूत्तमाङ्गस्य बलहृत्केशचक्षुषोः । आलेपनं वृष्यतरं बल्यं दुर्गन्धपाप्मजित् ॥ वासोनवं निर्मलञ्च श्रीमत्पारिषदं शुभम् । हर्घ्यं काम्यमौजस्यं रत्नाभरणधारणम् ॥ रजोवश्यायसूर्यांशूहिमानिलनिवारणम् । प्रतिश्यायशिरःशूलहरञ्चोष्णीषधारणम् ॥ ईतेर्विधमनं बल्यं गुप्तावरणशङ्करम् । घर्मानिलरजोम्बुघ्नं छत्रधारणमुच्यते ॥ १८ ॥ स्खलतः सम्प्रतिष्ठानं शत्रूणाञ्च निवारणम् । अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम् ॥ पादाभ्यङ्गस्तु चक्षुष्यो निद्राकृत्पादरोगहा । संवाहनं मांसरक्तत्वक् प्रसादकरं परम् ॥ प्रीतिनिद्राकरं वृष्यं कफवातश्रमापहम् । निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम् ॥ वृषताक्लीवताज्ञानमज्ञानं जीवितं न च ॥ २० ॥ अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता । ईतिरागामिदुर्दैवम् । गुप्तिः पिशाचादिभ्यो रक्षा ॥ १८ ॥ न च जीवितं मरणमित्यर्थः ॥ २० ॥

१६० द्रव्यगुणः । सुखायुषीपराकुर्य्यात्कालरात्रिरिवापरा ॥ रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा । अरूक्षमन्नभिष्यन्दिवासीनप्रचलायितम् ॥२१॥ आस्यावर्णबलश्लेष्मसौकुमार्य्यकरी सुखा । तालवृन्तोद्भवं वातं त्रिदोषशमनं विदुः ॥ वंशव्यजनजः सोष्णो वातपित्तप्रकोपणः । चामरो वस्त्रवातश्च मायूरो वेत्रजस्तथा ॥ एते दोषजिता वाताः स्निग्धा हृद्याः सुपूजिताः । निवातमारोग्यकरं सुखवातं श्रमापहम् ॥ प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत् । प्राग्वायुरुष्णोऽभिष्यन्दी त्वग्दोषार्शोविषक्रिमीन् ॥ सन्निपातज्वरं श्वासमामवातञ्च कोपयेत् । पश्चिमः शिशिरो हन्ति मूर्च्छां दाहं तृषां विषम् ॥ प्राग्गुणो दक्षिणः प्रोक्त उत्तरः पश्चिमानुगः ॥२२॥ विष्वग्वायुरनायुष्यः प्राणिनां नैकरोगकृत् । धूमः पित्तानिलौ कुर्य्यादवश्यायः कफानिलौ ॥ अग्निर्वातकफस्तम्भशीतवेपथुनाशनः । आमाभिष्यन्दशमनो रक्तपित्तप्रकोपणः ॥ आसीनस्य प्रचलायितं घूर्णितमित्यर्थः ॥ २१ ॥ प्राग्गुण इति प्राग्वातगुणः ॥ २२॥

द्रव्यगुणः । १६१ आतपः कटुको रूक्षश्छाया मधुरशीतला । ज्योत्स्नाकषाय मधुरा दाहासृक्पित्तनाशिनी ॥ तमोभयावहं तिक्तं कुज्झटिः कफपित्तला ॥२३॥ शीताभिष्यन्दिनी वृष्टिस्तन्द्रानिद्रावलप्रदा । देशोधन्वामरुत्पित्तकरो रूक्षोष्ण एव च ॥ आनूपस्तु हिमः स्निग्धो वातश्लेष्मकरो गुरुः । साधारणः समगुणः सर्वरोगापहः स्मृतः ॥ हेमन्तः शीतलः स्निग्धः स्वादुरग्नेश्च वृद्धिकृत् । शिशिरः शीतलः किञ्चित् रूक्षस्तीक्ष्णोऽनिला- ऽग्निकृत् ॥ वसन्तस्तुवरः सोष्णाकफव्याधिसमीरगाः । ग्रीष्म उष्णोऽतिरूक्षश्च कटुको वलहानिकृत् ॥ वर्षाः शीताविदाहिन्यो वह्निमान्यानिलात्तिंदाः शरत्पित्तकफप्राया स्निग्धोष्णाशस्यवृद्धिकृत् ॥ पूतिमांसं स्त्रियोवृद्धा बालार्कस्तरुणं दधि । प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥ सद्योमांसं नवान्नञ्च वालास्त्रीक्षीरभोजनम् । घृतमुष्णोदकञ्चैव सद्यः प्राणकराणि षट् ॥ आतपादीनाञ्च कटुत्वादिकं यदुक्तं तत् कटुरसादितुल्य- कार्य्यकर्तृत्वेन ज्ञेयम् ॥ २३ ॥

१६२ द्रव्यगुणः । सन्तताध्ययनं वादः परतन्त्रावलोकनम् । तद्विद्याचार्य्यसेवा च बुद्धिमेधाकरोगणः ॥ आयुष्यं भोजनं जीर्णे वेगानामविधारणम् । ब्रह्मचर्य्यमहिंसा च साहसानाञ्च वर्जनम् ॥ २४॥ तन्त्राणां सारमाकृष्य द्रव्याणां गुणसंग्रहः । भिषजामुपकाराय रचितश्चक्रपाणिना ॥ २५ ॥ वैद्यमहामहोपाध्याय श्रीमच्चक्रपाणिदत्तकृत द्रव्य- गुणसंग्रहः समाप्तः । इदानीमस्य संग्रहग्रन्थस्य उपादेयतां दर्शयितुमाह तन्त्राणा- मित्यादि ॥ २५ ॥ आसीत् सभायां शिखरीश्वरस्य लब्धप्रतिष्ठः किल सारसेनः । वाणीविलासं कविसार्वभौमं विजित्य यः प्राप यशो दुरापम् ॥ काकुत्स्थसेनस्तनयस्ततोऽभूत् तस्यापि लक्ष्मीधरसेननामा । तस्मादभूदुद्धरणस्तनूजस्तस्याप्यनन्तस्तनयोऽथ जज्ञे ॥ योऽन्तरङ्गपदवीं दुरापां छत्रमप्यतुलकीर्त्ति रवाप । गौड़भूमिपतिर्वाक् साक्षात्तत्सुतस्य कृतिनः कृतिरेषा ॥ कृतिर्ममैषाखिलतन्त्रतत्त्वविच्चिकित्सकान्नोपकरोति यद्यपि । तथापि नव्यान् भिषगल्पदृष्टिनः परः सहस्राननुकूलयिष्यति ॥ इति शिवदाससेनकृतटीका समाप्ता ।

The provided image is completely blurred, faded, and illegible, making it impossible to reliably decipher and transcribe the text. Please provide a clearer or higher-resolution scan of this page.

पण्डितकुलपतिः श्रीजीवानन्दविद्यासागर वि, ए, PANDIT KULAPATI JIBANANDA VIDYASAGARA, B. A. Superintendent Free Sanskrit College, Calcutta.