द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 165, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः। १५७ सरोऽनुलोमनः प्रोक्तो मन्दो यात्राकरः स्मृतः ॥१३ व्यवायो चाखिलं देहं व्याप्य पाकाय कल्पते ॥१४ विकासी विकसन्नेवं धातुबन्धान् विमोचयेत् ॥१५ आशुकरी तथाशुत्वाद्धावत्यम्भसि तैलवत् ॥१६॥ सूक्ष्मस्तु सौक्ष्मात्सूक्ष्मेषु स्रोतःस्वनुसरः स्मृतः । गुणा विंशतिरित्युक्तं? गुणा विंशतिरित्येवं यथावत्परिकीर्त्तिताः ॥१७॥ अनुलोमन इति । विगुणवायुमलादेः प्रवर्त्तनः । यात्राकर इति स्थैर्य्याद् देहस्थिरकारकः ॥ १३ ॥ व्यवायो गुणः अपक्व एव मद्यविषवत् प्रथममखिलं देहं व्याप्नोति ततस्तत्रस्थ एव पाकं याति । येऽपि भावाय इति पठन्ति, तत्रापि भावाय शरीरस्थितये भवतीत्यर्थः । अन्ये तु भावाय कल्पत इत्यस्य स्थितये कल्पते नोर्द्धमधो वा याती- त्याहुः । अपरे तु भावशब्दमभिप्रायार्थमिच्छन्ति । तत्र नियत- द्रव्यप्रभावेणात्मशक्त्यनुरूपं तत्तद्द्रव्यं मद्यविषवत् विशिष्टाभिप्रा- याय कल्पत इत्यर्थमाचक्षते ॥ १४ ॥ विकसनं विकासो हिंसासहिता गतिः कसगतिसातनयोरि- त्यस्य रूपं सोऽस्यास्तीति विकासी विकसन्निति गच्छन् । धातुबन्धानिति धात्वन्तरमर्य्यादारूपावकाशात् रसादीन् धातु- बन्धान् विमोचयेदिति धात्ववस्थितान् दोषमलान् पृथक्क्रो- तीति ॥ १५ ॥ आशुकरी गुणः आशुत्वादिति शीघ्रगतित्वात् ॥ १६ ॥ सरविशेषो व्यवायो तीक्ष्णविशेषो विकासी तेन विंशति- गुणा इत्युपसंहारो युक्त एव । अन्ये तु संख्याधिक्यभिया व्यवा- यिविकासि गुणौ न पठन्ति तत्र व्यवायिविकासिनोः स्वतन्त्रे १४