द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 164, कुल 176 में से
संदर्भ में पढ़ें१५६ द्रव्यगुणः । सादोपलेपबलकृत् गुरुस्तर्पणवृंहणः ॥ ७ ॥ लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा । दशाद्याः कर्मतः प्रोक्तास्तेषां कर्मविशेषणैः ॥ दशैवान्यान् प्रवक्ष्यामि द्रवादींस्तन्निबोध मे ॥ ८॥ द्रवः प्रक्लेदनः सान्द्रः स्थूलः स्याद् वृन्दकारकः॥६॥ श्लक्ष्णः पिच्छिलवज्ज्ञेयः कफलो विशदो यथा॥१०• सुखानुबन्धी सूक्ष्मश्च सुगन्धो रोचनो मृदुः ॥११॥ दुर्गन्धो विपरीतोऽस्मात् हृल्लासारुचिकारकः॥१२॥ सादोऽग्निससादः ॥ ७ ॥ कर्म इति ल्यब्लोपे पञ्चमी । तेन कर्म पुरस्कृत्य प्रोक्त इत्यर्थः । तेषां गुणानां मध्ये विशिष्टैः कर्मभिरन्यान् दश प्रव- क्ष्यामोत्यर्थः ॥ ८ ॥ सान्द्र इति सान्द्रगुणः । वृन्दो मेलक उपचय इति यावत् तत्कारकः । केचित्तु द्रवः प्रक्लेदनो व्यापी शुष्कः स्याद् द्वन्द्वकारकः । इति पठन्ति । तत्र शुष्क इति शुष्कगुण इत्यर्थः ॥ ६ ॥ सुगन्धगुणमाह सुखानुबन्धीत्यादि । सुखानुबन्धी सुखज- नकः । सूक्ष्म इत्यवगाहकः । शोभनो गन्धः सुगन्धः ॥ ११ ॥ विपरीत इति दुःखानुबन्धी । तथा नैव पुरुषमवगाहते अनभिलषितत्वात् । सुगन्धवैपरीत्येनैवारुचौ लब्धायां पुनस्त- द्वचनं द्विविधारुचिज्ञापनार्थम् । द्विविधो हि अरोचकः । तत्रैकः अनन्नाभिलाषरूपः । द्वितीयस्तु सत्यपि अभिलाषे अव्यवहारा- सामर्थ्यरूपः ॥ १२ ॥