द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 163, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः। १५५ अत ऊर्ध्वं प्रवक्ष्यामि गुणानां कर्मविस्तरम् । कर्मभिस्त्वनुमीयन्ते नानाद्रव्याश्रया गुणाः ॥१॥ ह्लादनः स्तम्भनः शीतो मूर्च्छाटट्क्केददाहजित् । उष्णस्तद्विपरीतः स्यात्पाचनश्च विशेषतः ॥ २ ॥ स्नेह्मार्दवकृत् स्निग्धो बलवर्णकरस्तथा । रूक्षस्तद्विपरीतः स्याल्लेखनः स्तम्भनः खरः ॥ ३ ॥ पिच्छिलः पीड़नो बल्यः सन्धानः श्लेष्मलो गुरुः॥४ विशदो विपरीतः स्यात् क्लेदावृषणरोपणः ॥५॥ दाहपाककरस्तीक्ष्णः स्त्रावणो मृदुरन्यथा ॥ ६ ॥ अनुपानादौ प्रतिपादिता ये गुणास्ते हेयोपादेयका- र्य्यकर्त्तृतयैव हेया उपादेया वा तेषाञ्च कार्य्यं कथं ज्ञातव्य- मिति जिज्ञासायां गुणानां कर्माभिधातुं प्रकरणान्तरमारभते । अत ऊर्ध्वमित्यादि । कर्मेति कार्य्यं कार्य्यावच्छिन्ना वा क्रिया । यद्यप्यत्रापि शीतपिच्छिलादयः प्रत्यक्षास्तथापि ते तत्कार्य्य- कर्त्तृतया अनुमेया एवेति कर्मभिस्त्वनुमीयन्त इत्युक्तम् । नाना च ते द्रव्याश्रयाश्चेति नानाद्रव्याश्रयाः ॥ १ ॥ ह्लादनः सुखकारक इत्यर्थः । स्तम्भनो रक्तातिप्रवृत्त्या- दीनाम् । शीत इति शीतगुणः । पाचनो व्रणस्य आमस्य ॥२॥ खर इति खरत्वं कार्कश्यं तत्कर इति । ३ ॥ पीड़न इति व्रणपीड़नः ॥ ४ ॥ क्लेदावृषण इति क्लेदहारकः ॥ ५ ॥ स्रावण इति व्रणनयनस्रावणः । मृदुरन्यथेति तीक्ष्णविप- रीतकर्मेत्यर्थः ॥ ६ ॥